यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑ᳪसि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪह॑सः
yádi divā́ yádi náktam énāṃsi cakṛmá vayám | vāyúr mā́ tásmād énasó víśvān muñcatv áṃhasaḥ ||
ଦିନେ ହେଉ କି ରାତିରେ, ଯଦି ଆମେ ପାପ କରିଥାଉ—ସେ ସମସ୍ତ ଏନସ (ଦୋଷ) ଓ ସମସ୍ତ ଅହସ (ପାପ) ଠାରୁ ବାୟୁ ମୋତେ ମୁକ୍ତ କରୁନ୍ତୁ।
यदि । दिवा । यदि । नक्तम् । एनाᳪसि । चकृ॒म । व॒यम् । वा॒युः । मा॒ । तस्मा॒त् । एन॑सः । विश्वा॑त् । मुञ्चतु । अᳪह॑सः