पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम्
pṛthivyā́ ahám úd antárikṣam ā́ruham antárikṣād dívam ā́ruham | divó nā́kasya pṛṣṭhā́t svàr jyótiḥ agām ahám
ପୃଥିବୀରୁ ମୁଁ ଅନ୍ତରିକ୍ଷକୁ ଆରୋହଣ କଲି; ଅନ୍ତରିକ୍ଷରୁ ମୁଁ ଦିବକୁ ଆରୋହଣ କଲି। ଦିବର ନାକର ପୃଷ୍ଠରୁ ମୁଁ ସ୍ୱର୍ଜ୍ୟୋତି—‘ସ୍ୱଃ’ର ଆଲୋକ—ପ୍ରାପ୍ତ କଲି।
पृ॒थि॒व्याः । अ॒हम् । उत् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒हम् । अ॒न्तरि॑क्षात् । दि॒वम् । आ । अ॒रु॒हम् । दि॒वः । नाक॑स्य । पृ॒ष्ठात् । स्वः॑ । ज्योतिः॑ । अ॒गा॒म् । अ॒हम्