न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत ऋ॒तवो॑ऽसृज्यन्तार्त॒वा अधि॑पतय आसँस्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत् पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो॑ऽधि॑पतिरासीत् सप्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत्
návabhir astuvat pitaró ’sṛjyantā́ditī́r ádhipatny āsīd ekādaśábhir astuvat ṛtávo ’sṛjyantārtavā́ ádhipataya āsaṁs trayodaśábhir astuvat mā́sā asṛjyanta saṁvatsaró ’dhipatir āsīt pañcadaśábhir astuvat kṣatrám asṛjyaténdro ’dhipatir āsīt saptadaśábhir astuvat grāmyā́ḥ paśávo ’sṛjyanta bṛ́haspátir ádhipatir āsīt
ନବଭିଃ ସେ ସ୍ତୁତି କଲା: ପିତରଃ ସୃଷ୍ଟ ହେଲେ; ଅଦିତି ତାଙ୍କର ଅଧିପତ୍ନୀ (ପ୍ରଧାନ ସହଧର୍ମିଣୀ) ହେଲେ। ଏକାଦଶଭିଃ ସେ ସ୍ତୁତି କଲା: ଋତବଃ (ଋତୁମାନେ) ସୃଷ୍ଟ ହେଲେ; ଋତବାଃ ତାଙ୍କର ଅଧିପତି ହେଲେ। ତ୍ରୟୋଦଶଭିଃ ସେ ସ୍ତୁତି କଲା: ମାସାଃ ସୃଷ୍ଟ ହେଲେ; ସଂବତ୍ସର ଅଧିପତି ହେଲା। ପଞ୍ଚଦଶଭିଃ ସେ ସ୍ତୁତି କଲା: କ୍ଷତ୍ର (ରାଜଶକ୍ତି) ସୃଷ୍ଟ ହେଲା; ଇନ୍ଦ୍ର ଅଧିପତି ହେଲା। ସପ୍ତଦଶଭିଃ ସେ ସ୍ତୁତି କଲା: ଗ୍ରାମ୍ୟ ପଶୁମାନେ ସୃଷ୍ଟ ହେଲେ; ବୃହସ୍ପତି ଅଧିପତି ହେଲେ।
नवभिः । अस्तुवत । पितरः । असृज्यन्त । अदितिः । अधि-पत्नी । आसीत् । एकादशभिः । अस्तुवत । ऋतवः । असृज्यन्त । आर्तवाः । अधि-पतयः । आसन् । त्रयोदशभिः । अस्तुवत । मासाः । असृज्यन्त । संवत्सरः । अधि-पतिः । आसीत् । पञ्चदशभिः । अस्तुवत । क्षत्रम् । असृज्यत । इन्द्रः । अधि-पतिः । आसीत् । सप्तदशभिः । अस्तुवत । ग्राम्याः । पशवः । असृज्यन्त । बृहस्पतिः । अधि-पतिः । आसीत्