वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
virā́ḍ jyótir adhārayat svarā́ḍ jyótir adhārayat | prajā́patis tvā sādáyatu pṛṣṭhé pṛthivyā́ jyótiṣmatīm | víśvasmai prāṇā́yāpānā́ya vyānā́ya víśvaṃ jyótir yaccha | agníṣ te ’dhipátis tayā́ devátayā ’ṅgirasvád dhruvā́ sīda ||
ବିରାଟ୍ ଜ୍ୟୋତି (ତୋତେ) ଧାରଣ କଲା; ସ୍ୱରାଟ୍ ଜ୍ୟୋତି (ତୋତେ) ଧାରଣ କଲା। ପ୍ରଜାପତି ତୋତେ ପୃଥିବୀର ପୃଷ୍ଠ ଉପରେ ଜ୍ୟୋତିଷ୍ମତୀ ରୂପେ ଆସୀନ କରୁନ୍ତୁ। ବିଶ୍ୱ-ପ୍ରାଣ, ଅପାନ ଓ ବ୍ୟାନ ପାଇଁ ତୁମେ ସର୍ବବ୍ୟାପୀ ଜ୍ୟୋତି ଅର୍ପଣ କର। ଅଗ୍ନି ତୋର ଅଧିପତି; ସେହି ଦେବତା ସହ, ଅଙ୍ଗିରସ-ସଦୃଶ ଭାବେ, ଧ୍ରୁବ ହୋଇ ଆସୀନ ହେ।
वि॒राट् । ज्योतिः॑ । अ॒धा॒र॒य॒त् । स्व॒राट् । ज्योतिः॑ । अ॒धा॒र॒य॒त् । प्र॒जाप॑तिः । त्वा॒ । सा॒द॒य॒तु॒ । पृ॒ष्ठे । पृ॒थि॒व्याः । ज्योति॑ष्मतीम् । विश्व॑स्मै । प्रा॒णाय॑ । अ॒पा॒नाय॑ । व्या॒नाय॑ । विश्व॑म् । ज्योतिः॑ । य॒च्छ॒ । अ॒ग्निः । ते॒ । अधि॑पतिः । तया॑ । दे॒वत॑या । अ॒ङ्गि॒र॒स्वत् । ध्रु॒वा । सी॑द ।