तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑ः ॥
tád ídāsa bhuváneṣu jyéṣṭhaṃ yáto jajñá ugrás tvéṣa-nṛ́mṇaḥ | sadyó jajñānó ní riṇāti śátrūn ánu yáṃ víśve mádanty ū́māḥ ||
Itulah sungguh yang paling utama dalam segenap alam, daripadanya lahir yang garang, berkilau dengan daya keperkasaan lelaki. Baru lahir, serta-merta ia menundukkan musuh-musuh; dialah yang diikuti, yang membuat segala kuasa yang bersukacita bergembira.
तत् । इत् । आस॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒ष-नृ॑म्णः । स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमा॑ः ।