ब्रह्मा॑णि मे म॒तय॒: शᳪ सु॒तास॒: शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑: । आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑
bráhmāṇi me matáyaḥ śáṃ sutā́saḥ śúṣma iyarti prá-bhṛto me ádriḥ | ā́ śāsate práti haryanty ukthé imā́ hárī vahatas tā́ no áccha
Doa-doaku dan fikiranku adalah demi kesejahteraan; minuman perahan—kekuatanku—bergejolak; batu pemerasanku yang terangkat menggerakkan. Mereka memberi perintah; pada uktha mereka bersukacita: wahai dua Kuda Kuning, bawalah itu ke mari kepada kami.
ब्रह्माणि । मे । मतयः । शम् । सुतासः । शुष्मः । इयर्ति । प्रभृतः । मे । अद्रिः । आ । शासते । प्रति । हर्यन्ति । उक्थे । इमा । हरी इति । वहतः । ता । नः । अच्छ ।