Sukta 10.135
यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥
यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पति॑: पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥
yásmin vṛkṣé su-palāśé deváiḥ sam-píbate yamáḥ | átrā no viśpátiḥ pitā́ purāṇā́m ánu venati ||
ज्या सुंदर पानांनी नटलेल्या वृक्षात देवांसह यम पान करतो, तिथेच आमचे पिता—जनपती—प्राचीनांच्या वाटेचा अनुकरण करीत आनंदाने विचरतात.
यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः । अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥यस्मिन् । वृक्षे । सुपलाशे । देवैः । सम्पिबते । यमः । अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥yasmin | vṛkṣe | su-palāśe | devaiḥ | sam-pibate | yamaḥ | atra | naḥ | viśpat iḥ | pitā | purāṇān | anu | venati