Sukta 1.188
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्त्समानजे । तेषां नः स्फातिमा यज ॥
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे । तेषां॑ नः स्फा॒तिमा य॑ज ॥
tváṣṭā rūpā́ṇi hí prabhúḥ paśū́n víśvān samānajé | téṣāṃ naḥ sphātím ā́ yaja ||
त्वष्टा खरोखरच रूपांचा प्रभु आहे; तो सर्व पशूंना/सर्व शक्तींना एकत्र करून जोडतो. त्यांच्या आमच्यासाठी स्फीतीसाठी आम्ही यजन करू—आम्हांला वाढ, विस्तार व पूर्णता लाभो.
त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे । तेषा॑म् । नः॒ स्फा॒तिम् । आ । य॒ज॒ ॥त्वष्टा । रूपाणि । हि । प्रभुः । पशून् । विश्वान् । सम्आनजे । तेषाम् । नः स्फातिम् । आ । यज ॥tvaṣṭā | rūpāṇi | hi | pra-bhuḥ | paśūn | viśvān | sam-ānaje | teṣām | naḥ sphātim | ā | yaja