Sukta 1.127
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः । वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । निःषहमाणो यमते नायते धन्वासहा नायते ॥
स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः । वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रम् । नि॒:षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥
sá hí purū́ cid ójasā virúkmātā dī́dyāno bhávati druhantaráḥ paraśúr ná druhantaraḥ | vīḷú cid yásya sámṛtau śrúvad vánéva yát sthirám | niḥ-sáhamāṇo yamate ná āyate dhanvā-sáhā ná āyate ||
तो (अग्नी) बहुविध सामर्थ्य असूनही, सुवर्णदीप्त तेजाने झळकत, अधिकच भयंकर प्रहारक होतो—कुऱ्हाडीप्रमाणे, अधिकच भयंकर प्रहारक। त्याच्या संघर्षात वनवृक्षासारखे स्थिर असलेलेही झुकते. तो निःसह (अपराजेय) होऊन पुढे सरकतो; तो मागे हटत नाही—विस्तीर्ण अवकाश जिंकूनही तो मागे हटत नाही.
सः । हि । पु॒रु । चि॒त् । ओज॑सा । वि॒रुक्म॑ता । दीद्या॑नः । भव॑ति । द्रु॒ह॒म्ऽत॒रः । प॒र॒शुः । न । द्रु॒ह॒न्त॒रः । वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् । निः॒ऽसह॑माणः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्तरः । परशुः । न । द्रुहन्तरः । वीळु । चित् । यस्य । सम्ऋतौ । श्रुवत् । वनाइव । यत् । स्थिरम् । निःसहमाणः । यमते । न । अयते । धन्वसहा । न । अयते ॥saḥ | hi | puru | cit | ojasā | virukmatā | dīdyānaḥ | bhavati | druham-taraḥ | paraśuḥ | na | druhantaraḥ | vīḷu | cit | yasya | sam-ṛtau | śruvat | vanāiva | yat | sthiram | niḥ-sahamāṇaḥ | yamate | na | ayate | dhanva-sahā | na | ayate