
Śubha-vrata (Dvādaśī-vrata) vidhiḥ tathā Kubjākāmra-tīrtha-māhātmya
Ritual-Manual and Tīrtha-Māhātmya (Vow Instruction with Sacred Geography)
ヴァラーハ(Varāha)とプリティヴィー(Pṛthivī)の教示という枠組みの中で、本章は暦の規律、布施(dāna)の倫理、そして「大地の諸形態」への儀礼的な配慮を中心とするヴァイシュナヴァの誓願(vrata)を説く。マールガシールシャ月(Mārgaśīrṣa)に受持を始め、要となるティティ(tithi)にわたって斎戒し、最後にドヴァーダシー(Dvādaśī)にプージャー(pūjā)、ハリ(Hari)の名の唱念、招いたブラーフマナ(Brāhmaṇa)への秩序立った布施によって成就することが示される。続いて古代の王の譬例が語られ、王は誓願を行じてヴィシュヌ(Viṣṇu)の顕現を受け、学徳ある子と終末の吉祥なる住処を願い、ついに解脱を得る。さらに、アムラ(amra、マンゴー樹)が「クブジャ(kubja)」となったことからクブジャーカームラのティールタ(Kubjākāmra tīrtha)が成立し、そこでの死は解放をもたらすと説かれ、儀礼功徳と大地の聖化が結び付けられる。
Verse 1
अगस्त्य उवाच । शृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् । येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ ५५.१ ॥
アガスティヤは言った。「聞きなさい、幸運なる王よ。諸々の誓戒(ヴラタ)の中でも最上の誓戒を。これにより、吉祥なる修行のみをもってヴィシュヌに到達する。疑いはない。」
Verse 2
मार्गशीर्षेऽथ मासे तु प्रथमह्नात् समारभेत् । एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥ ५५.२ ॥
次に、マールガシールシャ月には初日から始めるべきである。白分(明るい半月)においては、毎日一度の食事(エーカバクタ)とし、第十日(ダシャミー)に至るまで続ける。
Verse 3
ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च । भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ॥ ५५.३ ॥
次いで第十日(ダシャミー)の正午に、沐浴し、ヴィシュヌを正しく供養したのち、先に述べたとおり、半月(パクシャ)に応じて第十二日(ドヴァーダシー)を守るため、信愛をもってサンカルパ(誓願)を立てるべきである、王よ。
Verse 4
तामप्येवमुषित्वा च यवान् विप्राय दापयेत् । कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ ५५.४ ॥
またこのように守り終えたなら、ブラーフマナに大麦(ヤヴァ)を施すべきである。布施においても、ホーマ(火供)においても、また供養(アルチャナ)においても、「クリシュナのために(kṛṣṇāya)」という句をもってハリを称えて招請すべきである。
Verse 5
चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम । चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः । सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ ५५.५ ॥
このようにチャートゥルマーシャの行を成し終えたなら、王の中の最勝者よ、慎み深く賢明な者は、チャイトラ月に始まる諸月にも同様に再び斎戒すべきである。さらに、婆羅門たちに炒り粉(サクトゥ)を盛った鉢を黄金とともに施すよう取り計らうべきである。
Verse 6
श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् । त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ ५५.६ ॥
シュラーヴァナ月に始まる諸月には、同様に米を施与すべきである。そしてカルッティカ月の初めが来るまで、三か月にわたり続けるべきである。
Verse 7
तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः । अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ ५५.७ ॥
またその期間をこのように過ごしたのち、ダシャミー(第十日)に、慎み深く清浄な者は信愛をもってハリを礼拝すべきである。識別ある者は、相応の月名を唱える作法(マ―サ・ナーマ)によってこれを行うべきである。
Verse 8
संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः । एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ ५५.८ ॥
ドヴァーダシー(第十二日)には、信愛をもって感官を制し、以前と同様にサンカルパ(誓願の決意)を立てるべきである。さらにエーカーダシー(第十一日)には、王よ、力に応じてプリティヴィーのための儀礼を執り行わせるべきである。
Verse 9
काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् । भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ ५५.९ ॥
また、その像—金の肢体を備え、パーターラの族山に結びつくもの—を、地割の作法(ブーミ・ニャーサ)に従って安置し、ハリの御前に据えるべきである。
Verse 10
सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् । सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ ५५.१० ॥
識者は(彼女を)恭敬して供養したのち、「愛をもって与えられた施し」(priyadattā)として、白衣一対で供物を覆い、あらゆる種子を備え、さらに五宝(五つの宝石)を添えて捧げるべきである。
Verse 11
जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् । आमन्त्र्य संख्यया राजंśचतुर्विंशति यावतः ॥ ५५.११ ॥
そこで夜を徹して守夜し、そして黎明に、王よ、再び二度生まれの者(dvija)を敬って招き、数を定めて—二十四人までとすべきである。
Verse 12
तेषां एकैकशो गां च अनड्वाहं च दापयेत् । एकैकं वस्त्रयुग्मं च अङ्गुलीयकम् एव च ॥ ५५.१२ ॥
彼ら一人ひとりに順次、牝牛一頭と牡牛(anadwāha)一頭を施し、同様に各人へ衣一対と、さらに指輪一つを与えるべきである。
Verse 13
कटकार्णि च सौवर्णकर्णाभरणकानि च । एकैकं ग्राममेतॆषां राजा राजन् प्रदापयेत् ॥ ५५.१३ ॥
また腕輪を、さらに黄金の耳飾りをも施し、王よ、統治者はこれらの受者それぞれに一つずつ村を与えさせるべきである。
Verse 14
तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् । स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ ५५.१४ ॥
まず中ほどの品をすべて、しかも対(つい)として施すべきである。さらに貧しき者には、自らの力に応じて装身具を与えるべきである。
Verse 15
यथाशक्त्या महीṃ कृत्वा काञ्चनीं गोयुगं तथा । वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ ५५.१५ ॥
各自の力に応じて、黄金で作った「大地」の象徴を供養の施物として整え、同様に一対の牛を備え、さらに財力と能力に従って一対の衣を施すべきである。
Verse 16
गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् । एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ॥ ५५.१६ ॥
牛の施与は一対の装身具を添えて整え、さらにすべてを黄金とともに用意させるべきである。これが整ったなら、黒分(下弦)であれ白分(上弦)であれ、まさに十二日(ドヴァーダシー)に行う。
Verse 17
रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः । दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् । उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ ५५.१७ ॥
財力と能力に応じて銀で「大地」の象を作り、婆羅門たちに施しを与えさせ、同様に食事を供するべきである。さらに力の及ぶ限り、履物—サンダル—と、傘(天蓋)も施すべきである。
Verse 18
एतान् दत्त्वा वदेदेवं कृष्णो दामोदरॊ मम । प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ ५५.१८ ॥
これらを施した後、次のように唱えるべきである。「クリシュナ、ダーモダラは我がもの。宇宙の姿を具えた神、我がハリよ、常に我を喜ばせ給え。」
Verse 19
दाने च भोजने चैव कृत्वा यत् फलमाप्यते । तन्न शक्यं सहस्रेण वर्षाणामपि कीर्तितुम् ॥ ५५.१९ ॥
布施と施食によって得られる果報は、たとえ千年にわたり語り続けても、尽くして述べることはできない。
Verse 20
तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ । व्रतस्यास्य पुरा वृत्तं शुभान्यस्य शृणुष्व तत् ॥ ५५.२० ॥
それでもなお、咎なき者よ、この誓戒の果報の一端を簡略に汝に語ろう。さらに、往古にこの誓戒がいかに守られたかという吉祥なる由来をも聞け。
Verse 21
आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः । स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् । तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ ५५.२१ ॥
太初の世に、梵(ブラフマン)を語ることに帰依し、誓戒に堅固なる王がいた。子を望んだ彼は、至上の制定者たる梵天ブラフマーに問い、ブラフマーはこの誓戒を説き示した。王はそのとおりにこれを修した。
Verse 22
तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ । तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ ५५.२२ ॥
その誓戒の終わりに、宇宙のアートマン(ヴィシュヴァートマン)は自ら直に顕現した。満足して言われた。「おお王よ、我より恩寵を選べ—汝の望む恩寵を。」
Verse 23
राजोवाच । पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् । याजकं यजनासक्तं कीर्त्या युक्तं चिरायुषम् । असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ ५५.२३ ॥
王は言った。「神々の主よ、我に一子を授け給え。ヴェーダと聖なるマントラに通達し、祭祀(ヤジュニャ)に専心する祭官(ヤージャカ)たらしめよ。名声と長寿を具え、数えきれぬ徳を備え、梵(ブラフマン)に安住し、いかなる穢れもなき者を。」
Verse 24
एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् । ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर । यत्तन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ ५५.२४ ॥
かく述べて後、王はさらに言った。「至上主よ、我が命の終わりにも吉祥なる住処を授け給え。すなわち『ムニパダ』(munipada)と名づけられる、聖仙(ムニ)の位処である。そこに至れば、もはや嘆きはない。」
Verse 25
एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः । तस्यापि राज्ञः पुत्रोऽभूद्वत्सप्रीर्नाम नामतः ॥ ५५.२५ ॥
「そのとおりになれ」—そう告げて神は姿を消した。するとその王にもまた、名をヴァツァプリー(Vatsaprī)という王子が生まれた。
Verse 26
वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः । तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ ५५.२६ ॥
ヴェーダとその補助学(ヴェーダーンガ)に通じ、ヤジュニャ(祭祀)を修し、博学であった—おお大王よ、その名声は地上の隅々にまで広がった。
Verse 27
राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् । जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ ५५.२७ ॥
王もまた、その子—光輝あるヴィシュヌダッタ(Viṣṇudatta)—を得ると、苦行(タパス)に赴いた。修行に身を律し、快・不快など一切の二元(対立)を捨て去った。
Verse 28
आराधयामास हरिं निराहारो जितेन्द्रियः । हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ ५५.२८ ॥
そのとき王は、断食し諸根を制してハリ(Hari)を礼拝した。麗しきヒマヴァット山(Himavat)において、彼はその時、讃歌を捧げた。
Verse 29
भद्राश्व उवाच । कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः । किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ॥ ५५.२९ ॥
バドラ―シュヴァ(Bhadrāśva)は言った。「婆羅門よ、その王が作った讃歌(ストゥティ)はいかなるものであったのか。さらに、至上の神プルショーत्तマ(Puruṣottama)を讃えている間、彼には何が起こったのか。」
Verse 30
दुर्वासा उवाच । हिमवन्तं समाश्रित्य राजा तद्गतमानसः । स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ ५५.३० ॥
ドゥルヴァーサは言った。ヒマヴァーン(ヒマラヤ)に帰依し、心をその神聖なる一点に没入させた王は、神ヴィシュヌ、至大の威力を具えるヴィシュヌに讃歌を捧げた。
Verse 31
राजोवाच । क्षराक्षरं क्षीरसमुद्रशायिनं क्षितीधरं मूर्तिमतां परं पदम् । अतीन्द्रियं विश्वभुजां पुरः कृतं निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ५५.३१ ॥
王は言った。「我は主ジャナールダナを讃える。彼は滅するものと不滅なるものの両者であり、乳海に臥し、大地を支え、形あるもののうちの至上の境地である。諸感官を超え、宇宙の維持において最前に置かれ、しかも無条件にして一切の形相を超越する。」
Verse 32
त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च । अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ५५.३२ ॥
「汝はアーディ・デーヴァ、究極実在を体とする遍在の古き神、またプルショーत्तマ(至上の人格)である。感官を超え、ヴェーダを知る者の中の第一者よ—法螺貝と棍棒、諸武器を執る御方よ、我を護り給え。」
Verse 33
कृतं त्वया देव सुरासुराणां संकीर्त्यतेऽसौ च अनन्तमूर्ते । सृष्ट्यर्थमेतत् तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ॥ ५५.३३ ॥
「無量の姿をもつ神よ、神々とアスラに関して汝がなした御業は宣揚されている。神なるヴィシュヌよ、これは創造のためであり、未顕に安住するクータスタの者に帰せられる行為ではない。」
Verse 34
तथैव कूर्मत्वमृगत्वमुच्चैस् त्वया कृतं रूपमनेक रूप । सर्वज्ञभावादसकृच्छ जन्म संकीर्त्यते तेऽच्युत नैतदस्ति ॥ ५५.३४ ॥
「同様に、亀となり獣となることも、汝が取ったと語られる高貴なる姿である、あまたの形をもつ御方よ。だが汝は全知であるがゆえに、汝が繰り返し生まれるとしばしば宣べられる。アチュタ(不落)よ、真実にはそれはそうではない。」
Verse 35
नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव । नमोऽस्तु ते बुद्ध कल्किन् खगेश शम्भो नमस्ते विबुधारिनाशन ॥ ५५.३५ ॥
ナラシンハに帰敬し、ヴァーマナに帰敬し、ジャマダグニと名づけられし御方に帰敬し、十首(ラーヴァナ)の系統を断つヴァースデーヴァに帰敬する。仏陀よ、カルキンよ、鳥の主(ガルダ)よ、シャンブよ—神々の敵を滅する御方に帰敬する。
Verse 36
नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय । नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ॥ ५५.३६ ॥
ナーラーヤナ、パドマナーバよ、汝に帰敬する。プルショーत्तマよ、重ねて帰敬する。全ての不死なる神々の会衆に崇敬される御方よ、あらゆる知者の中の第一なる御方よ、汝に帰敬する。
Verse 37
नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म । नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिननन्त ॥ ५५.३७ ॥
恐るべき相をもつナラシンハの御姿に敬礼し、広大なる山に等しきクールマ(亀)の御姿に敬礼する。大海に比すべきマツヤ(魚)の御姿に敬礼し、猪の姿(ヴァラーハ)を現じた無尽の御方に、我は礼拝する。
Verse 38
सृष्ट्यर्थमेतत्तव देव चेष्टितं न मुख्यपक्षे तव मूर्तिता विभो । अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ५५.३८ ॥
この御働きは、神よ、創造のために行われるものであり、遍在の主よ、汝の具身の御姿は本性における第一義の位ではない。知らざる者のために、この観想の教えが明かされたのである。これらの方便なくしては、古き御方よ、汝は容易に識別されない。
Verse 39
आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव । पशुर्भवानृत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ॥ ५५.३९ ॥
ヴィシュヌよ、汝こそ自ら原初の祭(マカ)である。汝は祭の肢分となり、供物(ハヴィス)もまた汝のみである。汝は犠牲獣(パシュ)であり、また祭官(リトヴィジュ)により礼拝されるべき司祭の力でもある。神々の会衆と聖仙たちは汝を祭祀して礼拝する。
Verse 40
यदेतस्मिन् जगद्ध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् । न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ५५.४० ॥
この最上の宇宙は、不動なるものと動くもののすべてが、劫末の宇宙火をも越えて、あなたのうちに堅固に安住しております。おお主ジャナールダナよ、あなたはそれと分かたれてはおられません。どうか我が心の願う成就をお授けください。
Verse 41
नमः कमलपत्राक्ष मूर्तामूर्त नमो हरे । शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ५५.४१ ॥
蓮の葉のごとき眼をもつ御方よ、礼拝いたします。顕現にして非顕現なるハリよ、礼拝いたします。私はあなたに帰依しました。どうか私を引き上げ、輪廻(サンサーラ)より救い出してください。
Verse 42
एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना । विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ ५५.४२ ॥
かくしてその時、広々としたマンゴーの樹々の下に座する大心の王によって讃えられると、至上主パラメーシュヴァラは満足された。
Verse 43
कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् । तस्मिन्नागत मात्रे तु सीप्याम्रः कुब्जकोऽभवत् ॥ ५५.४३ ॥
その後、ハリは自ら猫背(せむし)の姿となって来臨された。そして到来したその瞬間、せむしは「シーピヤームラ(sīpyāmra)」と呼ばれるものへと変化した。
Verse 44
तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः । विशालस्य कथं कौब्ज्यमिति चिन्तापरोऽभवत् ॥ ५५.४४ ॥
この大いなる奇瑞を見て、誓戒に堅固な王は思索に没し、「ヴィシャーラはいかにして猫背の姿となったのか」と考え込んだ。
Verse 45
तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति । अनेनागतमात्रेण कृतमेतन्न संशयः ॥ ५५.४५ ॥
彼が思索していると、その बुद्धिはあのバラモンへと向かいこう悟った。「彼がただ来ただけで、これが成就したのだ—疑いはない。」
Verse 46
तस्मादेषैव भविता भगवान् पुरुषोत्तमः । एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ॥ ५५.४६ ॥
「ゆえに、この者こそが福徳あるプルショーत्तマ(至上の御方)となるであろう。」そう言って、その王はそのバラモンに礼拝した。
Verse 47
अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः । आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ ५५.४७ ॥
おお福徳なる主よ、まことにあなたは憐れみにより来臨されたプルショーत्तマ。おおハリよ、今こそ私にあなたの真実の御姿をお示しください。
Verse 48
एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः । बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ ५५.४८ ॥
このように請われると、法螺貝・円盤・棍棒を携える神は、穏やかな御姿で彼の前に現れ、次の言葉を告げた。
Verse 49
वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते । मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ॥ ५५.४९ ॥
「王の中の最勝者よ、汝の心にある願いのままに恩寵を選べ。われが喜ぶとき、王よ、三界でさえ胡麻一粒ほどの量にすぎぬ(取るに足らぬ)。」
Verse 50
एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः । मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किञ्चन ॥ ५५.५० ॥
このように告げられると、王は歓喜に目を大きく開き、「神々の主よ、解脱をお授けください」と申し上げ、そう言い終えるとそれ以上は何も語らなかった。
Verse 51
एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह । मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः ॥ यस्मात्तस्मात्तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ ५५.५१ ॥
このように告げられると、世尊は再び語られた。「わたしが来たとき、この広く茂るマンゴーの木は曲がり伏した。ゆえにこの聖なる渡しは『クブジャカ・アームラ』(曲がったマンゴーの木)と呼ばれるであろう。」
Verse 52
तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् । कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च । विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ ५५.५२ ॥
畜生の胎に生まれる者などから婆羅門に至るまで—もしこの地において自らの身を捨てるなら—彼らには五百のヴィマーナ(天の車)が現れる。しかるにヨーギーには、ただ解脱のみが得られる。
Verse 53
एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः । पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ ५५.५३ ॥
このように王に告げ終えると、神ジャナールダナは法螺貝の先で彼に触れた。王はただ触れられただけで、最上の涅槃に到達した。
Verse 54
तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज । येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ ५५.५४ ॥
それゆえ、王の中の最勝者よ、汝もまたその神に帰依せよ。そうすれば、再び嘆くべき境地へ赴くことはない。
Verse 55
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः । पठेद्यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ ५५.५५ ॥
朝早く起きて常にこれを聴聞し、この聖なる物語を誦する者は、その修行によって解脱(モークシャ)とダルマ、そしてアルタを得、またそれを授ける者となる。
Verse 56
शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर । स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ॥ ५५.५६ ॥
人々の主よ、この吉祥なる誓戒は功徳に満ちる。これを修する者は、この世であらゆる繁栄を享受したのち、「それ」へと帰入し、ついには融解・合一(最終の吸収)に至る。
The text foregrounds disciplined observance (vrata) as a combined ethical–ritual program: regulated fasting, controlled senses, and socially oriented giving (dāna) and feeding (bhojana) are presented as mechanisms for personal purification and communal order. Philosophically, the narrative links devotion to Viṣṇu with a yajña-theology (Viṣṇu as sacrifice and its components) and culminates in a liberation-oriented model where correct practice and focused stuti lead to mokṣa.
The observance begins in Mārgaśīrṣa (Mārgaśīrṣe… māse) and is structured around the bright fortnight (śukla/sita pakṣa), with emphasis on Daśamī, Ekādaśī, and Dvādaśī tithis. The chapter also references Cāturmāsya and reiterative observances across months (e.g., Caitra and Śrāvaṇa sequences) up to Kārttika, indicating a sustained seasonal cycle of vow-keeping.
Environmental meaning is conveyed through ritualized “earth-forms” and place-making: the bhūmi-nyāsa procedure and the installation of a pṛthivī representation before Hari sacralize terrestrial space as an object of careful handling and gifting ethics. The etiological account of Kubjākāmra tīrtha further binds ecological markers (a mango tree’s transformation) to moral geography, presenting the landscape as a carrier of memory, merit, and regulated human action.
The chapter references Agastya as an authoritative transmitter of vrata knowledge and includes Durvāsas as the narrator of the king’s stuti episode. A paradigmatic ancient king (unnamed in the provided passage) is described as brahmavādī and dṛḍha-vrata; he receives a son named Vatsaprī, characterized by Veda–Vedāṅga learning and ritual competence. The narrative also invokes Viṣṇu’s avatāra names within the stuti (e.g., Nṛsiṃha, Vāmana, Rāma/Jamadagni lineage reference, Buddha, Kalkin), situating the episode within broader Purāṇic cultural memory.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.