Adhyaya 5
Varaha PuranaAdhyaya 555 Shlokas

Adhyaya 5: Reconciliation of Action and Knowledge: Offering All Acts to Nārāyaṇa and the Hymn to the Yajña-Puruṣa

Karma-jñāna-samuccayaḥ: Nārāyaṇa-samarpaṇaṃ yajñanara-stavaś ca

Ethical-Discourse (Liberation Hermeneutics) + Stotra (Yajña-Theology)

ヴァラーハ(Varāha)とプリティヴィー(Pṛthivī)の教示という枠組みの中で、本章はアシュヴァシラス王(Aśvaśiras)がカピラ(Kapila)に近づき、解脱(mokṣa)はカルマ(karma:行為・祭式)によって得られるのか、あるいはジュニャーナ(jñāna:知)によって得られるのかという根本の疑問を問う場面を描く。カピラは先例を引き、ライビヤ(Raibhya)が同じ問いをブリハスパティ(Bṛhaspati)に発し、ブリハスパティが「善悪いずれの行為も、ナーラーヤナ(Nārāyaṇa)に委ねて行う(nārāyaṇe nyasya)なら束縛とならない」と説いたことを示す。さらに、ヴェーダ学生サンヤマナ(Saṃyamana)と猟師ニシュトゥラカ(Niṣṭhuraka)の論争が語られ、「火と鉄の網」の譬えによって、根—我執による取り込み—を断てば枝葉の束縛が尽きると論証する。結末では、アシュヴァシラスが王位を捨て、ナイミシャ(Naimiṣa)で苦行を修し、宇宙のヤジュニャ・プルシャ(Yajña-Puruṣa)としてのナーラーヤナを讃嘆し、その原理へと心を融かしてゆく。

Primary Speakers

VarāhaPṛthivīAśvaśirasKapilaBṛhaspatiRaibhyaVasuSaṃyamanaNiṣṭhuraka

Key Concepts

karma-jñāna-samuccaya (integration of action and knowledge)nārāyaṇārpaṇa (offering of all acts to Nārāyaṇa) and akarma (non-binding action)advaita-vāsanā-siddhi (non-dual conditioning as a yogic attainment)mūla-nāśa (root-destruction of ego/appropriation) as liberation strategyyajñanara / yajñamūrti (cosmic embodiment of sacrifice)rājadharma to vānaprastha/saṃnyāsa transition (royal renunciation model)

Shlokas in Adhyaya 5

Verse 1

अश्वशिरा उवाच । भवन्तौ मम सन्देहमेकं छेत्तुमिहार्हतः । येन छिन्नेन जायेत मम संसारविच्युतिः ॥ ५.१ ॥

アシュヴァシラーは言った。「ここにおいて、わが一つの疑いを断ち切るに、汝ら二人はふさわしい。その疑いが断たれれば、我には輪廻(サンサーラ)よりの解脱が生ずるであろう。」

Verse 2

एवमुक्ते नृपतिना तदा योगिवरो मुनिः । कपिलः प्राह धर्मात्मा राजानं यजतां वरम् ॥ ५.२ ॥

王がそのように語り終えると、その時、徳に住する最勝のヨーギー仙人カピラは、祭祀(ヤジュニャ)を行う者の中で最も優れた王に向かって語った。

Verse 3

कपिल उवाच । कस्ते मनसि सन्देहो राजन् परमधार्मिक । छिन्दामि येन तच्छ्रुत्वा ब्रूहि यत्तेऽभिवाञ्छितम् ॥ ५.३ ॥

カピラは言った。「王よ、至上のダルマに帰依する者よ、汝の心にいかなる疑いが起こったのか。望むところを語れ。聞き終えたなら、我はそれを断ち払おう。」

Verse 4

राजोवाच । कर्मणा प्राप्यते मोक्ष उताहो ज्ञानिना मुने । एतन्मे संशयं छिन्धि यदि मेऽनुग्रहः कृतः ॥ ५.४ ॥

王は言った。「牟尼よ、解脱(モークシャ)は業(カルマ)によって得られるのか、それとも知者(ジュニャーニン)によって得られるのか。もし我に恩寵を垂れたのなら、この疑いを断ち切ってほしい。」

Verse 5

कपिल उवाच । इमं प्रश्नं महाराज पुरा पृष्टो बृहस्पतिः । रैभ्येण ब्रह्मपुत्रेण राज्ञा च वसुनापुराः । वसुरासीन्नृपश्रेष्ठो विद्वान् दानपतिः पुरा ॥ ५.५ ॥

カピラは言った。「大王よ、この問いは昔、ブリハスパティ(Bṛhaspati)に問われたことがある。梵天(Brahmā)の子ライビヤ(Raibhya)と、また王ヴァス(Vasu)によってである。その頃ヴァスは王の中の最勝者で、博識にして、布施(dāna)の主として名高かった。」

Verse 6

चाक्षुषस्य मनोः काले ब्रह्मणोऽन्वयवर्धनः । वसुश्च ब्रह्मणः सद्म गतवान्स्तद्दिदृक्षया ॥ ५.६ ॥

チャークシュシャ・マヌの時代、梵天(ブラフマー)の系譜に連なるアヌヴァヤヴァルダナとヴァスは、梵天の住処へ赴き、御姿を拝見せんと願った。

Verse 7

पथि चैत्ररथं दृष्ट्वा विद्याधरवरं नृप । अपृच्छच्च वसुः प्रीत्या ब्रह्मणोऽवसरं प्रभो ॥ ५.७ ॥

王よ、道中で優れたヴィディヤーダラであるチャイトララタを見たヴァスは、親愛と敬意をもって、梵天への拝謁の機会について尋ねた、主よ。

Verse 8

सोऽब्रवीद् देवसमितिर्वर्तते ब्रह्मणो गृहे । एवं श्रुत्वा वसुस् तस्थौ द्वारि ब्रह्मौकसस् तदा । तावत् तत्रैव रैभ्यस् तु आजगाम महातपाः ॥ ५.८ ॥

彼は言った。「神々の集会は梵天の御殿で開かれている。」それを聞いてヴァスは梵天の住処の門口に立った。その折、同じ場所に大苦行者ライビヤが到来した。

Verse 9

स राजा प्रीतमनसा वसुः सम्पूर्णमानसः । उवाच पूजयित्वाग्रे क्व प्रयातोऽसि वै मुने ॥ ५.९ ॥

その王ヴァスは心に喜び、精神を整えて、まず礼敬を捧げてから言った。「牟尼よ、まことにどこへ向かわれるのですか。」

Verse 10

रैभ्य उवाच । अहं बृहस्पतेः पार्श्वे आगतोऽस्मि महानृप । किञ्चित्कार्यान्तरं प्रष्टुमहं देवपुरोहितम् ॥ ५.१० ॥

ライビヤは言った。「大王よ、私は神々の師ブリハスパティのもとへ来た。天界の祭司に、ある別の用向きを尋ねるためである。」

Verse 11

एवं वदति रैभ्ये तु ब्रह्मणस्तन्महासदः । उत्तस्थौ स्वानि धिष्ण्यानि गता देवगणाः प्रभो ॥ ५.११ ॥

ライビヤがそのように語っている間に、梵天の大いなる सभा(集会)は立ち上がり、神々の群れは、主よ、それぞれの住処へと去って行った。

Verse 12

तावद् बृहस्पतिस्तत्र रैभ्येण सह संविदम् । कृत्वा स्वधिष्ण्यमगमद् वसुनाच सुपूजितः ॥ ५.१२ ॥

その間、ブリハスパティはそこでライビヤとともに協議を行い、ヴァスによってしかるべく供養されてのち、自らの住処へと帰って行った。

Verse 13

रैभ्य आङ्गिरसो राजा वसुश्चोपाविवेश ह । उपविष्टेषु राजेन्द्र तेषु तेष्वपि सोऽब्रवीत् ॥ ५.१३ ॥

アンギラスの裔なる王ライビヤとヴァスもまた着座した。諸王が座に就くと、王の中の王よ、彼は彼らにも語りかけた。

Verse 14

बृहस्पतिर्देवगुरू रैभ्यं वचनमन्तिके । किं करोमि महाभाग वेदवेदाङ्गपारग ॥ ५.१४ ॥

神々の師ブリハスパティは、ライビヤの近くで言った。「大いなる幸いを具え、ヴェーダとヴェーダーンガに通暁する者よ、我はいかにすべきか。」

Verse 15

रैभ्य उवाच । बृहस्पते कर्मणा किं प्राप्यते ज्ञानिना । अथवा । मोक्ष एतन्ममाचक्ष्व पृच्छतः संशयं प्रभो ॥ ५.१५ ॥

ライビヤは言った。「ブリハスパティよ、智ある者は行為(カルマ)によって何を得るのか。あるいは――主よ、我が疑いを晴らすために問うのだ、解脱(モークシャ)について説き明かしてほしい。」

Verse 16

बृहस्पतिरुवाच । यत्किञ्चित् कुरुते कर्म पुरुषः साध्वसाधु वा । सर्वं नारायणे न्यस्य कुर्वन् नैव च लिप्यते ॥ ५.१६ ॥

ブリハスパティは言った。「人が行ういかなる行為も—善であれ不善であれ—そのすべてをナーラーヤナに委ね奉り、供養の心で行うならば、その業によって汚されず、縛られもしない。」

Verse 17

श्रूयते च द्विजश्रेष्ठ संवादो विप्रलुब्धयोः । आत्रेयो ब्राह्मणः कश्चिद् वेदाभ्यासरतो मुनिः ॥ ५.१७ ॥

また聞くところによれば、最勝の二度生まれよ、欺かれた二人のバラモンの間に対話があったという。その中に、アートレーヤ(Ātreya)系のあるバラモンがおり、ヴェーダの学習と誦持に専心するムニであった。

Verse 18

वसत्यविरतं प्रातःस्नायी त्रिषवणे रतः । नाम्ना संयमनः पूर्वमेकस्मिन् दिवसे नदीम् । धर्मारण्ये गतः स्नातुं धन्यां भागीरथीं शुभाम् ॥ ५.१८ ॥

昔、サンヤマナ(Saṃyamana)という名の者がいた。彼は怠りなく修行し、早朝に沐浴し、三時の儀礼に励んでいた。ある日、彼はダルマ・アラニヤへ赴き、吉祥にして福徳あるバギーラティー(Bhāgīrathī)河で沐浴しようとした。

Verse 19

तत्रासीनं महायूथं हरिणानां विचक्षणः । लुब्धो निष्ठुरको नाम धनुःपाणिः कृतान्तवत् । आययौ तं जिघांसुः स धनुष्यायोज्य सायकम् ॥ ५.१९ ॥

そこに、休んで座する鹿の大群を見て、目の鋭い猟師が現れた。名をニシュトゥラカ(Niṣṭhuraka)といい、弓を手にして死神のごとく、彼らを殺そうとして矢を弓につがえた。

Verse 20

ततः संयमनो विप्रो दृष्ट्वा तं मृगयारतम् । वारयामास मा भद्र जीवघातमिमं कुरु ॥ ५.२० ॥

そのときバラモンのサンヤマナは、彼が狩猟に執心しているのを見て制止し、「善き人よ、この生きものを殺す行いをしてはならぬ」と言った。

Verse 21

एतच्छ्रुत्वा वचो व्याधः स्मितपूर्वमिदं वचः । उवाच नाहं हिंसामि पृथग्जीवं द्विजोत्तम ॥ ५.२१ ॥

その言葉を聞くと、猟師(ヴ்யాధ)は先に微笑み、こう言った。「おお、最上の二度生まれの方よ。私は生きものを、我と別なるものとしては殺さない。」

Verse 22

परमात्मा त्वयं भूतैः क्रीडते भगवान् स्वयम् । क्रीता मृदा बलीवर्द्धास्तद्वदेतन्न संशयः ॥ ५.२२ ॥

汝はパラマートマンである。バガヴァーン自らが衆生と戯れたもう。土の塊で牛を買うように、ここでも同じである—疑いはない。

Verse 23

अहे भावः सदा ब्रह्मन्नविद्येयं मुमुक्षुणाम् । यात्राप्राणरतं सर्वं जगदेतद्विचेष्टितम् । तत्राहमिति यः शब्दः स साधुत्वं न गच्छति ॥ ५.२३ ॥

おおブラーフマナよ、解脱を求める者にとって、この在り方は常に無明(アヴィディヤー)である。全世界は営みに忙しく、生計をまるで生命の息そのもののように頼みとしている。そして「我(われ)」という語で表される思いは、真の善(サードゥトヴァ)に至らない。

Verse 24

इत्याकर्ण्य स विप्रेन्द्रो द्विजः संयमनस्तदा । विस्मयेनाब्रवीद्वाक्यं लुब्धं निष्ठुरकं द्विजः ॥ ५.२४ ॥

これを聞くと、婆羅門の中の第一人者、名をサンヤマナという二度生まれの者は、驚きつつ言葉を発した。しかしその言は貪りの意を含み、口調も苛烈であった。

Verse 25

किमेतदुच्यते भद्र प्रत्यक्षं हेतुमद्वचः । ततः श्रुत्वा मुनेर्विप्रं लुब्धकः प्राह धर्मवित् । कृत्वा लोहमयं जालं तस्याधो ज्वलनं ददौ ॥ ५.२५ ॥

「善き御方よ、これはいかなることか。目の前に明らかで、理にかなった言葉ではないか。」そう言うと、婆羅門の牟尼の言を聞いた猟師—ダルマを知る者—が答え、鉄の網を作ってその下に火を焚いた。

Verse 26

दत्त्वा वह्निं द्विजं प्राह ज्वाल्यतां काष्ठसचयः । ततो विप्रो मुखेनाग्निं प्रज्वाल्य विरराम ह ॥ ५.२६ ॥

火を渡してから、彼は二度生まれの者(バラモン)に告げた。「薪の積み山を燃え立たせよ。」するとバラモンは口によって火を燃え上がらせ、やがて静かにやめた。

Verse 27

ज्वलिते तु पुनर्वह्नौ तं जालं लोहसम्भवम् । पृथक्पृथक् सहस्राणि निन्येऽन्तर्जालकैर्द्विज । एकस्थानगतस्यापि वह्नेरायसजालकैः ॥ ५.२७ ॥

しかし火が再び燃え上がると、バラモンよ、彼は鉄より成るその網を運び去り、内側の網目を用いてそれを幾千もの別々の部分として引き離した。火は一所に留まっていたが、鉄の格子網によって抑えられていた。

Verse 28

ततो लुब्धोऽब्रवीद्विप्रं एकां ज्वालां महामुने । गृहाण येन शेषाणां करिष्यामीह नाशनम् ॥ ५.२८ ॥

すると貪欲な者はバラモンに言った。「大いなる聖仙よ、この一つの炎を受け取れ。これによって、ここに残るものを滅ぼしてみせよう。」

Verse 29

एवमुक्त्वा हुताशे तु तोयपूर्णं घटं द्रुतम् । चिक्षेप सहसा वह्निः प्रशशामाशु पूर्ववत् ॥ ५.२९ ॥

そう言うと、彼は水で満たした壺を素早く火中へ投げ入れた。炎はたちまち鎮まり、以前のように速やかに静まった。

Verse 30

ततोऽब्रवील्लुब्धकस्तु ब्राह्मणं तं तपोधनम् । भगवन् या त्वया ज्वाला गृहोतासीद्धुताशनात् । प्रयच्छ येन मार्गाणि मांसान्यानाय्य भक्षये ॥ ५.३० ॥

そこで狩人は、苦行に富むそのバラモンに申し上げた。「尊き御方よ、あなたの家においてその燃える炎から起こった火により、肉を得て運び、食するための道(手立て)を、どうか私に授けてください。」

Verse 31

एवमुक्तस्तदा विप्रो यावदायसजालकम् । पश्यत्येव न तत्राग्निर्मूलनाशे गतः क्षयम् ॥ ५.३१ ॥

かく告げられて、バラモンは鉄の格子を見つめ、そこに火がないことを見た。根本が滅びたゆえに、それは終わりに至っていた。

Verse 32

ततो विलक्षणभावेन ब्राह्मणः शंसितव्रतः । तूष्णीम्भूतस्थितस्तावल्लुब्धको वाक्यमब्रवीत् ॥ ५.३२ ॥

その後、称賛された誓戒を保つバラモンは、明らかに様子を変え、しばし沈黙して立ち尽くした。その間に狩人が次の言葉を語った。

Verse 33

एतस्मिञ्ज्वलितो वह्निर्बहुशाखश्च सत्तम । मूलनाशे भवेन्नाशस्तद्वदेतदपि द्विज ॥ ५.३३ ॥

ここでは燃えさかる火が多くの枝へと広がる、ああ徳ある者の最勝よ。根が滅びれば滅尽が随う。そのようにここでも同じである、ああ二度生まれし者よ。

Verse 34

आत्मा स प्रकृतिस्थश्च भूतानां संश्रयो भवेत् । भूय एषा जगत्सृष्टिस्तत्रैव जगतो भवेत् ॥ ५.३४ ॥

そのアートマンはプラクリティ(物質自然)のうちに住して衆生の依処となる。さらに再び、この世界の創造が起こり—まさにそこにおいて世界は成り立つ。

Verse 35

पिण्डग्रहणधर्मेण यदस्य विहितं व्रतम् । तत्तदात्मनि संयोज्य कुर्वाणो नावसीदति ॥ ५.३५ ॥

ピンダ(儀礼の食供)を受け取る法に従って彼に定められた誓行(ヴラタ)が何であれ、それぞれの行為を自己(アートマン)に結び合わせて修する者は、苦悩にも衰退にも陥らない。

Verse 36

एवमुक्ते तु व्याधेन ब्राह्मणे राजसत्तम । पुष्पवृष्टिरथाकाशात् तस्योपरि पपात ह ॥ ५.३६ ॥

狩人がそのように語り終えると、王の中の最勝者よ、たちまち虚空より花の雨が降り、その婆羅門の上に注がれた。

Verse 37

विमानानि च दिव्यानि कामगानि महान्ति च । बहुरत्नानि मुख्यानि ददृशे ब्राह्मणोत्तमः ॥ ५.३७ ॥

またその最勝の婆羅門は、意のままに行く巨大な天上のヴィマーナ(空中車)と、数多の第一の宝玉・財宝を目にした。

Verse 38

तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् । ददृशे ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ॥ ५.३८ ॥

その中で婆羅門は、苛酷さと貪欲の気質が万般に遍満しているのを見、さらにその場で、意のままに姿を変えることのできる最勝の存在を見た。

Verse 39

अद्वैतवासना सिद्धं योगाद् बहुशरीरकम् । दृष्ट्र्वा विप्रो मुदा युक्तः प्रययौ निजमाश्रमम् ॥ ५.३९ ॥

瑜伽によって、不二の観想の薫習により成就し、「多身」として顕れる境地を見たのち、婆羅門は歓喜に満たされて自らの庵(アーシュラマ)へと帰って行った。

Verse 40

एवं ज्ञानवतः कर्म कुर्वतोऽपि स्वजातिकम् । भवेन्मुक्तिर्द्विजश्रेष्ठ रैभ्य राजन् वसो ध्रुवम् ॥ ५.४० ॥

かくして、知を具する者は、たとえ行為をなしていても、また自らの身分(ジャーティ)の範囲で行じていても、解脱は生起する、二度生まれの最勝者よ。ライビヤよ、ヴァス王よ、これは確かなことである。

Verse 41

एवं तौ संशयच्छेदं प्राप्तौ रैभ्यवसू नृप । बृहस्पतेस्ततो धिष्ण्याज्जग्मतुर्निजमाश्रमम् ॥ ५.४१ ॥

かくして王よ、ライビヤとヴァスの二人は疑いの断絶を得て、ブリハスパティの聖なる座を辞し、自らの庵(アーシュラマ)へと赴いた。

Verse 42

तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् । अभेदेन स्वदेहस्थं पश्यन्नाराधय प्रभुम् ॥ ५.४२ ॥

それゆえ、王の中の最勝者よ、汝もまた主ナーラーヤナを礼拝せよ。差別なく、主が自らの身体の内に住するものと観じつつ、主を供養し崇拝せよ。

Verse 43

कपिलस्य वचः श्रुत्वा स राजाऽश्वशिरा विभुः । ज्येष्ठं पुत्रं समाहूय धन्यं स्थूलशिराह्वयम् । अभिषिच्य निजे राज्ये स राजा प्रययौ वनम् ॥ ५.४३ ॥

カピラの言葉を聞くや、威力ある王アシュヴァシラスは、長子ダンニャ(スートゥーラシラスの名でも知られる)を召し、己が国において灌頂して王位に就け、王は森へと旅立った。

Verse 44

नैमिषाख्यं वरारोहे तत्र यज्ञतनुं गुरुम् । तपसाराधयामास यज्ञमूर्तिं स्तवेन् च ॥ ५.४४ ॥

麗しき腰の女よ、ナイミシャと呼ばれる地において、彼は苦行と讃歌とによって、身そのものが祭祀である尊き師、すなわちヤジュニャ(供犠)の化身を歓喜させ奉った。

Verse 45

धरण्युवाच । कथं यज्ञतनॊः स्तोत्रं राज्ञा नारायणस्य ह । स्तुतिः कृता महाभाग पुनरेतच्च शंस मे ॥ ५.४५ ॥

ダーラニーは言った。「供犠をその身とするナーラーヤナへの讃歌を、王はいかにして作したのですか。幸いなる方よ、これをもう一度私に語ってください。」

Verse 46

श्रीवराह उवाच । नमामि याज्यं त्रिदशाधिपस्य भवस्य सूर्यस्य हुताशनस्य । सोमस्य राज्ञो मरुतामनेक-रूपं हरिं यज्ञनरं नमस्ये ॥ ५.४६ ॥

聖なるヴァラーハは言った。「礼拝を受けるにふさわしきハリに、我は帰依して礼拝する。彼は神々の主として、バヴァ(シヴァ)として、太陽として、祭祀の火として、王ソーマとして、また多様なる姿のマルットとして現れる。われは祭祀に身を現す“ヤジュニャ・プルシャ(祭祀の人格)”としてのハリに敬礼する。」

Verse 47

सुभीमदंष्ट्रं शशिसूर्यनेत्रं संवत्सरे छायनयुग्मकुक्षम् । दर्भाङ्गरोमाणमतैध्मशक्तिं सनातनं यज्ञनरं नमामि ॥ ५.४७ ॥

我は永遠なるヤジュニャ・プルシャに帰依して礼拝する。牙は畏るべく猛く、眼は月と太陽、腹は二つの至(夏至・冬至)を伴う一年、体毛はダルバ草、そしてその力は儀礼を支える薪である。

Verse 48

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं शरीरेण दिशश्च सर्वाः । तमीद्यामीशं जगतां प्रसूतिं जनार्दनं तं प्रणतोऽस्मि नित्यम् ॥ ५.४८ ॥

まことに、天と地の間の空間は彼の御身によって遍満され、あらゆる方角もまた同様である。称賛に値する主、統べる者、諸世界の生起の源—ジャナールダナに、我は常に礼拝して帰依する。

Verse 49

सुरासुराणां च जयाजयाय युगे युगे यः स्वशरीरमाद्यम् । सृजत्यनादिः परमेश्वरो य- स्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ॥ ५.४९ ॥

我は、ヤジュニャをその御姿とする主に常に礼拝して帰依する。始まりなき至上の統御者は、神々とアスラの勝敗のため、時代ごと(ユガごと)に自らの原初の身体を顕現される。そのヤジュニャ・ムールティなる御方に、我はひれ伏す。

Verse 50

दधार मायामयमुग्रतेजा जयाय चक्रं त्वमलांशुशुभ्रम् । गदासिशार्ङ्गादिचतुर्भुजोऽयं तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५.५० ॥

猛き光輝を具え、勝利のために清浄なるチャクラ(円盤)を執り給う。汚れなき光線にて燦然と輝く。四臂の御方は、ガダー(棍棒)、剣、シャールンガ(Śārṅga)の弓、その他の武器を携える。祭祀の化身たるヤジュニャ・ムールティに、我は常に礼拝して帰依する。

Verse 51

क्वचित् सहस्रं शिरसां दधार क्वचिन्महापर्वततुल्यकायम् । क्वचित् स एव त्रसरेणुतुल्यो यस्तं सदा यज्ञनरं नमामि ॥ ५.५१ ॥

ある時は千の頭を戴き、ある時はその身は大いなる山に等しい。ある時はまた、同じ御方が塵の微粒ほどに微細である。われは常に、祭祀の人(yajña-nara)に礼拝し奉る。

Verse 52

चतुर्मुखो यः सृजते समग्रं रथाङ्गपाणिः प्रतिपालनाय । क्षयाय कालानलसन्निभो य-स्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५.५२ ॥

われは常に、祭祀の具現たるヤジュニャムールティ(Yajñamūrti)に礼拝し奉る。四つの御顔として一切を創り、手に輪(チャクラ)を執りて守護し、また時の火に似て滅尽をもたらす御方に。

Verse 53

संसारचक्रक्रमणक्रियायै य इज्यते सर्वगतः पुराणः । यो योगिभिर्ध्यायते चाप्रमेयस् तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥ ५.५३ ॥

われは常に、そのヤジュニャムールティに礼拝し奉る。古より在り、遍満し、量り知れぬ御方。輪廻(サンサーラ)の輪を回転させる働きの原理として供養され、また瑜伽行者らにより禅観される御方に。

Verse 54

सम्यङ्मनस्यर्पितवानहं ते यदा सुदृश्यं स्वतनौ नु तत्त्वम् । न चान्यदस्तॊति मतिः स्थिरा मे यतस्ततो मावतु शुद्धभावम् ॥ ५.५४ ॥

わが心を正しく汝に捧げたとき、真実の理はこの身のうちに明らかに現れた。しかも我が理解は堅固となった――「他には何もない」と。ゆえに、その理解が四方より我が清浄なる心性を護らんことを。

Verse 55

इतीरितस्तस्य हुताशनार्चिः प्रख्यं तु तेजः पुरतो बभूव । तस्मिन् स राजा प्रविवेश बुद्धिं कृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ॥ ५.५५ ॥

かく告げられるや、彼の前に火焔のごとき名高き光輝が現れた。王は心を定めてその光明の中へ入り、祭祀の具現たるヤジュニャムールティ(Yajñamūrti)において融解し、究竟の合一を得た。

Frequently Asked Questions

The text frames liberation as compatible with action when action is performed without possessive appropriation and is ‘deposited’ in Nārāyaṇa (nārāyaṇe nyasya). Knowledge functions as the root-level correction—removing the ‘I’-claim (ahaṃ-śabda/ahaṃkāra) that generates binding consequences—so karma becomes non-binding when integrated with this orientation.

No explicit tithi, nakṣatra, or month is specified. The narrative mentions daily-regimen markers: the Brahmin Saṃyamana bathes in the morning (prātaḥ-snānī) and is devoted to the three daily rites (triṣavaṇa). A single ‘one day’ (ekasmin divase) episode is used to situate the exemplum.

Environmental concern appears indirectly through the Dharmāraṇya–Bhāgīrathī setting and the ethical confrontation over hunting. The text recasts harm and agency through a metaphysical lens (critiquing egoic authorship), yet it still foregrounds restraint and reflection on ‘jīvaghāta’ (killing of living beings). For digital stewardship themes, the chapter can be read as regulating human conduct in forest–river ecologies by linking ethical action to non-possessive, non-exploitative intention.

The chapter references Kapila; Bṛhaspati (devaguru); Raibhya (identified as a Brahmaputra and as Āṅgirasa); King Vasu (a learned donor-king); Cākṣuṣa Manu as a genealogical/chronological marker; and the king Aśvaśiras with his son Sthūlaśiras (installed as successor). It also includes the exemplum figures Saṃyamana (a Vedic practitioner) and Niṣṭhuraka (a hunter) to stage doctrinal instruction.