य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति। स वायुपूतो भवति। स आदित्यपूतो भवति। स ब्रह्मपूतो भवति। स विष्णुपूतो भवति। स रुद्रपूतो भवति। स सर्वेषु तीर्थेषु स्नातो भवति। स सर्वेषु वेदेष्वधीतो भवति। स सर्ववेदव्रतचर्यासु चरितो भवति। तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति। प्रणवानामयुतं जप्तं भवति। दश पूर्वान्दशोत्तरान्पुनाति। स पङ्क्तिपावनो भवति। स महान्भवति। ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्यः पूतो भवति॥२९॥
यः । एतत् । उपनिषदम् । नित्यम् । अधीते । सः । अग्नि-पूतः । भवति । सः । वायु-पूतः । भवति । सः । आदित्य-पूतः । भवति । सः । ब्रह्म-पूतः । भवति । सः । विष्णु-पूतः । भवति । सः । रुद्र-पूतः । भवति । सः । सर्वेषु । तीर्थेषु । स्नातः । भवति । सः । सर्वेषु । वेदेषु । अधीतः । भवति । सः । सर्व-वेद-व्रत-चर्यासु । चरितः । भवति । तेन । इतिहास-पुराणानाम् । रुद्राणाम् । शत-सहस्राणि । जप्तानि । फलानि । भवन्ति । प्रणवानाम् । अयुतम् । जप्तम् । भवति । दश । पूर्वान् । दश । उत्तरान् । पुनाति । सः । पङ्क्ति-पावनः । भवति । सः । महान् । भवति । ब्रह्म-हत्या । सुरा-पान । स्वर्ण-स्तेय । गुरु-तल्प-गमन । तत्-संयोगि-पातकेभ्यः । पूतः । भवति ॥
ya etad upaniṣadaṃ nityam adhīte so'gnipūto bhavati | sa vāyupūto bhavati | sa ādityapūto bhavati | sa brahmapūto bhavati | sa viṣṇupūto bhavati | sa rudrapūto bhavati | sa sarveṣu tīrtheṣu snāto bhavati | sa sarveṣu vedeṣv adhīto bhavati | sa sarvaveda-vrata-caryāsu carito bhavati | tenetihāsa-purāṇānāṃ rudrāṇāṃ śata-sahasrāṇi japtāni phalāni bhavanti | praṇavānām ayutaṃ japtaṃ bhavati | daśa pūrvān daśottarān punāti | sa paṅktipāvano bhavati | sa mahān bhavati | brahmahatyā-surāpāna-svarṇasteya-gurutalpagamana-tatsaṃyogipātakebhyaḥ pūto bhavati ||29||
このウパニシャッドを日々学ぶ者は、火によって清められ、風によって清められ、太陽によって清められ、ブラフマーによって清められ、ヴィシュヌによって清められ、ルドラによって清められる。彼はあらゆるティールタに沐浴した者のごとく、すべてのヴェーダを学んだ者のごとく、すべてのヴェーダの戒めと修行を実践した者のごとくなる。ゆえに、無数のルドラ讃歌とイティハーサ・プラーナを誦した果報が得られ、またプラナヴァ(オーム)を一万回唱えたのと等しい。十代の祖先と十代の子孫を浄め、食事の列を浄める者となり、偉大となる。さらに、婆羅門殺し、酒飲み、黄金盗み、師の床を犯すこと、ならびにそれらに関わる罪から清められる。
He who daily studies this Upaniṣad becomes purified by fire; he becomes purified by wind; he becomes purified by the sun; he becomes purified by Brahmā; he becomes purified by Viṣṇu; he becomes purified by Rudra. He becomes as one who has bathed in all sacred fords; as one who has studied all the Vedas; as one who has practiced the observances and disciplines of all the Vedas. Through that, the fruits of having recited hundreds of thousands of (hymns called) Rudras and of the Itihāsas and Purāṇas accrue; (it is as though) ten thousand recitations of the Praṇava have been done. He purifies ten ancestors and ten descendants. He becomes a purifier of the dining line. He becomes great. He becomes purified from the grave sins—Brahmin-killing, drinking liquor, stealing gold, violating the teacher’s bed, and association with those (sins).
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.