अग्ने॒ अच्छा॑ वदे॒ह न॒: प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वᳪ हि ध॑न॒दा असि॒ स्वाहा॑
agnḗ ácchā vada iha naḥ práti naḥ sumánā bhava | prá no yaccha sahasrajít tvaṃ hí dhanadā́ asi svā́hā
アグニよ、ここへ向けてわれらに語れ。われらに対し善意に満ちた者となれ。われらに豊かな獲得を与えよ。汝は千の勝利を得る者、富を与える者である——スヴァーハー!
अग्ने । अच्छा । वद । इह । नः । प्रति । नः । सु-मनाः । भव । प्र । नः । यच्छ । सहस्र-जित् । त्वम् । हि । धन-दाः । असि । स्वाहा ।