त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑: । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो न॑: सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ।
tvám agne vratapā́ asi devá ā́ martyéṣv ā́ | tváṃ yajñéṣv ī́ḍyaḥ | rāsva iyát somā́ bhū́yo bhara devó naḥ savitā́ vásor-dātā vásu-vad-dāt |
アグニ(Agni)よ、汝は誓戒の守護者(vratapa)、人々の中に在す神なり。汝は祭儀において讃えらるべき者。ソーマ(Soma)を我らに相応しく授け、さらに多くをもたらしたまえ。善きものの施与者なる神サヴィタル(Savitar)よ、我らに豊かな財を、富をもって授けたまえ。
त्वम् । अग्ने । व्रत-पाः । असि । देवः । आ । मर्त्येषु । आ । त्वम् । यज्ञेषु । ईड्यः । रास्व । इयत् । सोमाः । भूयः । भर । देवः । नः । सविता । वसोः-दाता । वसु-वत्-दात् ।