अग्ने॒ त्वᳪ सु जा॑गृहि व॒यᳪ सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि ।
agne tváṃ sú jāgṛhi vayáṃ sú mandiṣīmahi | rákṣā no apráyucchan prabúdhe naḥ púnas-kṛdhi |
アグニ(Agni)よ、よく目覚めよ。われらもまた、よく歓喜せん。怠ることなくわれらを守れ。われらが目覚めのために、再び新たに整えよ。
अग्ने । त्वम् । सु । जागृहि । वयम् । सु । मन्दिषीमहि । रक्ष । नः । अप्रयुच्छन् । प्रबुधे । नः । पुनः-कृधि ।