समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः
samíddho adyá mánuṣo duroṇé devó devā́n yajasi jātávedāḥ | ā́ ca váha mitrám ahaś-cikitvā́n tváṃ dūtáḥ kavír asi prácetāḥ
今日、マヌの家に燃え立つ者よ、ジャータヴェーダス(Jātavedas)よ、汝は神として諸神を祭る。さらにミトラ(Mitra)をもここへ運べ、昼の時節を知る者よ。汝は使者、聖賢、先見の智を具える者である。
समि॑द्धः । अ॒द्य । मनु॑षः । दुरो॒णे । दे॒वः । दे॒वान् । य॑जसि । जात-वेदः । आ । च । वह । मित्रम् । अहः-चिकित्वान् । त्वम् । दू॒तः । क॒विः । असि । प्र-चेताः