अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः
átrā te rū́pam uttamáṃ apaśyaṃ jígīṣamāṇam iṣá ā́ padé góḥ | yadā́ te márto ánu bhógam ānáṭ ā́d íd grásīṣṭha óṣadhīr ajīgaḥ
ここに、われは汝の最上の姿を見た。勝利を求めて奮い立ち、牛の足跡のところにて養いを得んとする姿を。しかして、ある死すべき者が汝の享受にあずからんとして従い来たるとき、まことに汝は、最も貪り食らう者として、草薬(オーシャディー)をことごとく呑み尽くした。
अत्र । ते । रूपम् । उत्तमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगः