होता॑ यक्ष॒द्वन॒स्पति॑ᳪ शमि॒तार॑ᳪ श॒तक्र॑तु॒ᳪ हिर॑ण्यपर्णमु॒क्थिन॑ᳪ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म् । क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣad-vanaspátiṃ śamítāraṃ śatákratuṃ híraṇyaparṇam ukthínaṃ raśánāṃ bíbhrataṃ vaśíṃ bhágam índraṃ vayódhasam | kakúbhaṃ chánda ihéndríyaṃ vaśā́ṃ véhataṃ gā́ṃ váyo dádhad vétv ā́jyasya hótar yája
ホートリ(Hotṛ)は、ヴァナスパティ(Vanaspati)—鎮める者、百の力をもつ者(Śatakratu)、黄金の葉をもつ者、讃歌を具える者、手綱を帯びる者—を祭れ。さらに、生命力を支えるインドラ(Indra)を祭れ。カクブ(Kakubh)は韻律、ここに威力がある。不妊の牝牛、若い牝牛、牝牛—生命の力を授けるもの—を得て、それは来たれ——ホートリよ、酥油をもって祭れ。
होता । यक्षत् । वनस्पतिम् । शमितारम् । शत-क्रतुम् । हिरण्य-पर्णम् । उक्थिनम् । रशनाम् । बिभ्रतम् । वशिम् । भगम् । इन्द्रम् । वयः-धसम् । ककुभम् । छन्दः । इह । इन्द्रियम् । वशाम् । वेहतम् । गाम् । वयः । दधत् । वेतु । आज्यस्य । होतः । यज ।