होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑नᳪ रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् । द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat-surétasaṃ tváṣṭāraṃ puṣṭí-várdhanaṃ rūpā́ṇi bíbhrataṃ pṛthák puṣṭím índraṃ vayódhasam | dvipádaṃ chánda indríyam ukṣā́ṇaṃ gā́ṃ na váyo dádhad vétv ā́jyasya hótar yája
ホートリ(Hotṛ)は、善き生殖の力をもつトヴァシュトリ(Tvaṣṭṛ)—養いを増し、諸々の形相をそれぞれに帯びる者—を祭れ。さらに、生命力を支えるインドラ(Indra)を祭れ。二足(Dvipad)は韻律、牡牛は威力である。牝牛が生命の力を授けるように、それは来たれ——ホートリよ、酥油をもって祭れ。
होता । यक्षत् । सु-रेतसम् । त्वष्टारम् । पुष्टि-वर्धनम् । रूपाणि । बिभ्रतम् । पृथक् । पुष्टिम् । इन्द्रम् । वयः-धसम् । द्वि-पदम् । छन्दः । इन्द्रियम् । उक्षाणम् । गाम् । न । वयः । दधत् । वेतु । आज्यस्य । होतः । यज ।