अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्य॒: । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑: । तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः
agné tvaṃ no ántama utá trātā́ śivó bhava varūthyàḥ | vásur agnír vásuśravā ácchā nakṣi dyumáttamaṃ rayíṃ dā́ḥ | táṃ tvā śociṣṭha dīdivaḥ sumnā́ya nūnám īmahe sákhíbhyaḥ
アグニよ、汝はわれらに最も近き者、まことに守護者なり。慈しみ深くあれ、庇護の防塁となれ。善なるアグニ、富の名声ある者よ、われらを正しく導け。最も輝かしき財を与えたまえ。最も灼熱にして光り輝く者よ、いまわれらは汝の恩寵を求めて祈り願う、われらの友(伴侶)たちのためにも。
अग्ने॑ । त्वम् । नः॒ । अन्त॑मः । उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । वरू॒थ्यः॑ । वसु॑ः । अ॒ग्निः । वसु॑श्रवाः । अच्छा॑ । न॒क्षि॒ । द्यु॒मत्त॑मम् । र॒यिम् । दाः । तम् । त्वा॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒वः । सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑भ्यः