यद्ध॑वि॒ष्य॒मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः
yád dhaviṣyám ṛtuśó devayā́naṃ trír mā́nuṣāḥ páry áśvaṃ náyanti | átrā pūṣṇáḥ prathamó bhā́ga éti yajñáṃ devébhyaḥ prativédayann ájaḥ
季節にかなって、神々へ赴く供物(havis)があるとき、人々はその周りを駿馬に三たび巡らせる。ここにプーシャン(Pūṣan)の最初の分け前が来る――山羊が、祭(yajña)を神々へと取り次ぐ。
यत् । ह॒वि॒ष्यम् । ऋ॒तु॒शः । दे॒व॒यानम् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति । अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒वे॒दय॑न् । अ॒जः