शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
śáṃ ca me máyaś ca me priyáṃ ca me ’nukā́maś ca me kā́maś ca me saumanasáś ca me bhágaś ca me dráviṇaṃ ca me bhadráṃ ca me śréyaś ca me vásīyaś ca me yáśaś ca me yajñéna kalpantām
我に平安あれ、我に歓喜あれ。我に愛しきものあれ、我に望ましき願いあれ。我に欲求あれ、我に善き心あれ。我に福分(ばが)あれ、我に財宝あれ。我に吉祥なる善あれ、我により善きものあれ。我にいよいよ勝れたものあれ、我に名声あれ。これらは祭祀(yajña)によって我に調え成就せられよ。
शम् च मे । मयः च मे । प्रियम् च मे । अनुकामः च मे । कामः च मे । सौमनसः च मे । भगः च मे । द्रविणम् च मे । भद्रम् च मे । श्रेयः च मे । वसीयः च मे । यशः च मे । यज्ञेन कल्पन्ताम् ।