य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूशच॒॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
yantā́ ca me dhartā́ ca me kṣémaś ca me dhṛ́tiś ca me víśvaṃ ca me máhaś ca me saṃvíc ca me jñā́traṃ ca me sū́ś ca me prasū́ś ca me sī́raṃ ca me láyaś ca me yajñéna kalpantām
我に統べる者あれ、我に支える者あれ。我に安穏(けいま)あれ、我に堅忍(どり)あれ。我に万有あれ、我に大いなる威光あれ。我に洞察あれ、我に知識あれ。我に生み出す力あれ、我に増え広がる力あれ。我に鋤(すき)あれ、我に定住あれ。これらは祭祀(yajña)によって我に調え成就せられよ。
यन्ता च मे । धर्ता च मे । क्षेमः च मे । धृतिः च मे । विश्वम् च मे । महः च मे । संवित् च मे । ज्ञात्रम् च मे । सूः च मे । प्रसूः च मे । सीरम् च मे । लयः च मे । यज्ञेन कल्पन्ताम् ।