इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि । अव्य॑थायै त्वा स्व॒धायै॒ त्वाऽरि॑ष्टो॒ अर्जु॑नो म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑
índrasya vájro ’si mitrā́varuṇayos tvā praśāstróḥ praśíṣā yunajmi | avyáthāyai tvā svadhā́yai tvā ’ríṣṭo árjuno marútāṃ prasavéna jayā́pām mánasā sám indríyeṇa
汝はインドラの金剛(ヴァジュラ)なり。ミトラとヴァルナの法(規定)により、二人の監督者の命令により、われ汝を繋ぎ合わせる。無患安穏のために汝を繋ぎ、svadhā(祖霊への供分・固有の力)のために汝を繋ぐ。損なわれず、輝けるものよ、マルトたちの促しによって——われらは心とインドラの威力とをもって、水を勝ち得ん。
इन्द्र॑स्य । वज्रः॑ । अ॒सि॒ । मि॒त्रा-वरु॑णयोः । त्वा॒ । प्र॒शा॒स्त्रोः । प्र॒शिषा॑ । यु॒न॒ज्मि॒ । अ॒व्य॑थायै । त्वा॒ । स्व॒धायै॑ । त्वा॒ । अ॒रि॑ष्टः । अर्जु॑नः । म॒रुताम् । प्र॒स॒वेन॑ । ज॒यापाम् । मन॑सा । सम् । इ॒न्द्रि॒येण॑