
The Description of the Sarvatobhadra Maṇḍala (सर्वतोभद्रमण्डलकथनम्)
本章は、サルヴァトーバドラ・マण्डラ(Sarvatobhadra Maṇḍala)を、マントラ・サーダナのための聖別された場(kṣetra)として建立し加持するための、厳密な儀礼=建築体系を説く。浄地と予備供養を要件として始まり、方形の格子を蓮華に基づく区画(pīṭha、vīthikā、門)へと配し、方位の神々とヴェーダの区分を割り当て、さらに諸元素・諸根・内的機能を多層に安置する規定を示す。続いて幾何から作法の「工学」へ移り、色彩規定、顔料の材料、清めと標示の手順、精密な寸法(aṅgula、hasta、kara)を、japaの基準(bīja、mantra、vidyā)およびpuraścaraṇaの修行規律と結び付ける。後半ではマण्डラ構造を内なるヨーガ解剖—nāḍī、心蓮、種子力の光線—として解釈し、粗大な音形の身、微細で光明なる心の形、思惟を超えた至上へと至る段階的観想を説く。最後に、拡張されたvyūha配置(9・25・26など)、門飾りの規則、吉祥なるmartyeṣṭya maṇḍalaを挙げ、聖なる設計が礼拝と成就の双方を秩序づけることを示す。
Verse 1
इत्य् आदिमहापुराणे आग्नेये आचार्याभिषेको नाम अष्टाविंशो ऽध्यायः अथ ऊनत्रिंशो ऽध्यायः सर्वतोभद्रमण्डलकथनं नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके शुद्धभूमौ गृहे प्रार्च्य मण्डले हरिमीश्वरं आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत्
かくして『アグニ・プラーナ』—原初のマハープラーナ—において、「アーチャーリヤの灌頂(アビシェーカ)」と題する第二十八章は終わる。ここに第二十九章「サルヴァトーバドラ・マンダラの説示」が始まる。ナーラダは言った。修行者(サーダカ)は、神の祠などにおいて、家の内の清浄な地にて真言を成就すべきである。まず礼拝を行い、マンダラの中でハリを自在主(イーシュヴァラ)として礼拝せよ。火方(アーグネーヤ)の蓮座にはプラクリティを、南方(ヤームヤ)の蓮座にはプルシャを供養すべし。
Verse 2
चतुरस्त्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत् रसवाणाक्षिकोष्ठेषु सर्वतोभद्रमालिखेत् पुरुषाद्दक्षिणे च वह्निं नैरृते वारुणेनिलं आदित्यमैन्दवे पद्मे ऋग्यजुश् चैशपद्मके
四角の区画に、マンダラ等の図をまさに描くべきである。数(rasa・vāṇa・akṣi)で示された区画には「サルヴァトーバドラ」の形を描け。ヴァーストゥ・プルシャの南にアグニを置き、ナイリタ(南西)にはヴァルナとヴァーユを置く。アインダヴァ/アインドラの蓮座にはアーディティヤ(太陽)を置き、イーシャの蓮座にはリグとヤジュ(ヴェーダの部)を配すべし。
Verse 3
षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्यावहिर्भवेत् द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च इन्द्रादींश् च द्वितीयायां पद्मे षोडशके तथा सामाथर्वाणमाकाशं वायुं तेजस् तथा जलं
台座(pīṭha)のための蓮華マンダラは三十六区画で設け、外縁は列状に整える。次に二区画をヴィーティカー(繞行の通路)とし、さらにそこから二区画を諸方の門に充てる。第二の蓮座においても—十六の配列の中に—インドラ等の神々を置き、同様にサーマおよびアタルヴァ(ヴェーダ)と、元素である虚空(ākāśa)・風(vāyu)・火/テージャス・水(jala)を配すべし。
Verse 4
वर्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम् पद्मार्धे भामयित्वा तु भागं द्वादशमं वहिः पृठिवीञ्च मनश् चैव श्रोत्रं त्वक् चक्षुरर्चयेत् रसनाञ्च तथा घ्राणं भूर्भुवश् चैव षोडशं
円形を描き(あるいは回転させて配し)、先に説いたとおり蓮華の領域(padma-kṣetra)を設ける。次に半蓮において、外側に第十二の区分を標すべし。地と心を供養し、また耳・皮膚・眼を供養し、さらに舌と鼻を—Bhūḥ と Bhuvaḥ とともに—第十六の区分に配して供養せよ。
Verse 5
विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्तुलं प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम् महर्जनस्तपः सत्यं तथाग्निष्टोममेव च अत्यग्निष्टोमकं चोक्थं षोडशीं वाजपेयकं
分割したのち、残余を回転させて四つの区画からなる円形として配すべし。第一は中央の花房域(karṇikā-kṣetra)、第二は花弁域(keśara)である。その中に、Mahas・Jana・Tapa・Satya の名を置き(または記し)、同様に Agniṣṭoma、さらに Atyagniṣṭoma・Ukthya・Ṣoḍaśin・Vājapeya を配すべし。
Verse 6
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्चयेत् मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकं
花弁の接合部に第三の点を、花弁の先端に第四の点を(標示)すべきである。角より対角の線を延ばし—角方位より起こして中央を貫き終端に至らしめ—しかるのち、アティラートラ(Atirātra)の祭式を正しく供養し、同様にアプトーリヤーマ(Aptoryāma)をも供養すべきである。さらに、心(マナス)、知性(ブッディ)、我慢(アハンカーラ)、および微細要素たる音・触・色を礼拝すべきである。
Verse 7
निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत् पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत् रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात् प्रत्यग्निष्टोमकमिति ख, चिह्नितपुस्तकपाठः ज्योतिष्टोमकमिति ङ, चिह्नितपुस्तकपाठः जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकं
花托の先端(kesarāgra)に印を置き、蓮華の花弁の接合部を標示すべきである。次いで導きの糸を垂らし、そこに八弁の蓮華図を記す。順次、二十四の蓮華に ‘rasa’ と ‘gandha’ の語を記入する。(標記ある写本では ‘pratyagniṣṭomakam’ と読み、別の写本では ‘jyotiṣṭomakam’ と読む。)さらに ‘jīva’、‘manodhipa’、‘pañcāha’、‘prakṛti’、‘śabdamātraka’ を真言要素として書き記す。
Verse 8
दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरं वासुदेवादिमूर्तीञ्च तथा चैव दशत्मकं मनः श्रोत्रं त्वचं प्रार्च्य चक्षुश् च रसनं तथा
花弁の接合部の間の空隙の中央に度量点(māna)を置き、これを花弁の先端へと回転させる。さらにその先端より直ちに、ヴァースデーヴァ(Vāsudeva)に始まる諸形相を供養すべきである。同様に、「十種」の組—心、聴覚、皮膚(触)、また眼と舌(味)—を正しく礼拝すべきである。
Verse 9
तदन्तरालं तत्पार्श्वे कृत्वा वाह्यक्रमेण च केशरे तु लिखेद्द्वौ द्वौ दलमध्ये ततः पुनः घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान् चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः
その間隙を左右に整え、外方の順序に従って進みつつ、花糸(filaments)には二つずつ記すべきである。さらに花弁の中央には、鼻・言語・手・足を、三十二の蓮華区画(花弁)に配すべきである。第四の囲いにおいて、これらは支分(aṅga)および眷属を伴って供養されるべきである。
Verse 10
पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते कर्णिकार्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात् पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान् पुरुषोत्तमादिषड्विंशान् वाह्यावरणके यजेत्
これが蓮華図(padma-lakṣmī)の一般相であり、十二弁であると説かれる。karṇikā の半分に等しい度量をもって、東の位置より始め、順次に配当を描き/回転させるべきである。肛門および生殖部位において(神々を)正しく供養したのち、外囲においてプルショーत्तマ(Puruṣottama)に始まる月の十二主を—総数二十六尊—祭祀すべきである。
Verse 11
तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात् अष्टौ प्रकृतयः षड्वा पञ्चाथ चतुरो ऽपरे
その傍らに、円環状に配する方法によって、六つの螺旋の巻き(クンダリー kuṇḍalī)が成る。同様に、十二の「魚形」(マツヤ matsya)と十二枚の花弁の組が生起する。その輪蓮(チャクラーブジャ cakrābja)において、月々の主(マーサ・パティ māsa-pati)を順次、如法に供養すべきである。これらの配列は、八つの根本要素(プラクリティ prakṛti)とも、六つとも説かれ、また五つ、あるいは四つとする説もある。
Verse 12
पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम् व्योमरेखावहिः पीठन्तत्र कोष्टानि मार्जयेत् रजः पातं ततः कुर्याल्लिखिते मण्डले शृणु कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः
五弁蓮の作法を成就するため、まず魚形(マツヤ matsya)を描き、次いでそのようにして蓮華の図(アブジャカ)を構成すべきである。「虚空の線」(vyo-ma-rekhā)を標した台座(ピータ pīṭha)において、区画(コーシュタ koṣṭa)を拭い清めよ。その後、描かれたマンダラに粉(ラジャス rajas)を散らす—さらに聞け。中央の蓮房(カルニカー karṇikā)は黄色とし、すべての線は均等に白くすべし。
Verse 13
त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत द्विहस्ते ऽङ्गुष्टमात्राः स्युर्हस्ते चार्धसमाः सिताः पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा
三つの隅には足のための印を描き、他の印は対にして作る。四方に塗り施すことで、肢体に似た付属部分もまた生ずる。両手の形には拇指ほどの寸法とし、片手の場合はその半分で白色とする。蓮華は白で表し、接合の線(継ぎ目)は黒、または濃い藍色とせよ。
Verse 14
ततः पङ्क्तिद्वयं दिक्षु वीठ्यर्थन्तु विलोपयेत् द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत् भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः
次に、四方の方位において二本の線を消して通路(ヴィーティ vīthi)を作る。四方に四つの門を設けよ。花糸(ケーシャラ keśara)は赤と黄とし、隅は赤で満たす。ヨーガピータ(yogapīṭha)は望むままに諸色の顔料で荘厳せよ。
Verse 15
द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः पङ्क्तिद्वयं द्वयं दिक्षु वीथ्यर्थं विनियोजयेदिति ङ, चिह्नितपुस्तकपाठः तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्तिताः लतावितानपत्राद्यैर् वीथिकामुपशोभयेत् पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः
巧みな建築者は、門の両側に八つの装飾要素を設けるべきである。各方位に二列(または二組)として配し、通路(ヴィーティ vīthī)を形づくり、かつ美しくするために用いる、とされる。これらの側方の副装飾も同数であると説かれる。通廊は蔓草文、天蓋のような垂飾、葉の装飾などで飾り、台座の門(ピータ・ドヴァーラ pīṭha-dvāra)では白・吉祥の赤・黄によって荘厳を施す。
Verse 16
समीप उपशोभानां कोणास्तु परिकीर्तिताः चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः उपशोभाञ्च नीलेन कोणशङ्ख्यांश् च वै सितान् भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणं
「ウパショーバー(upaśobhā)」の区画に隣接する角は、角区分であると宣言される。四方において、次に中間の升目とともに、各方位に二つずつその区分を観想すべきである。ウパショーバーの区画は青で満たし、角の番号に当たる区分はまことに白で満たす。『バドラカ(bhadraka)』の塗り分け法はすでに説かれたので、他の図様も同様に塗り分けるべきである。
Verse 17
चत्वारि वाह्यतो मृज्यादेकैकं पार्श्वयोरपि शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पद्दलस्य तु त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत् द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके
外側には四本の線を記し、左右の両側にもそれぞれ一本ずつ記すべきである。装飾のため、両側に三本ずつを配する。蓮弁の図では、三角形を白と赤、さらに黒で荘厳し、二重三角は赤と黄で彩り、チャクラの臍(nābhi)は黒に塗る。
Verse 18
तद्वद्विपर्यये कुर्यादुपशोभां ततः परम् कोणस्यान्तर्वहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः सितश्यामारुणाः कृष्णाः पीता रेखास्तु वाह्यतः
逆の配列においても同様に、その後に副次の荘厳であるウパショーバー(upaśobhā)を施すべきである。角の内外に三本の帯線を、二段の区別をもって観想する。「アラカ(araka)」は黄と赤で彩り、暗色の部分も同様にするが、輪縁(nemi)は赤とする。白・濃青・赭赤、さらに黒を用い、最外の線は黄とする。
Verse 19
एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम् द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम् हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः
このようにして十六升のマンダラが成り、同様に他のマンダラもある。二×六の区分に分ければ三十六升の方格となり、蓮華の図は「ヴィーティカー(vīthikā)」すなわち路・軌の配列である。白は米粉などから作り、赤は紅花(サフラワー)などから、黄は鬱金(ウコン)から、黒は焼いた穀粒から作るべきである。
Verse 20
एका पङ्क्तिः प्राभ्यां तु द्वारशोभादि पूर्ववत् द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले शमीपत्रादिकैः श्यामं वीजानां लक्षजाप्यतः चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम्
前面には装飾の一列を作り、門の荘厳などは前に説かれたとおりに配する。マンダラの中に、十二アングラ(aṅgula)の蓮華を、一ハスタ(hasta)の範囲内に描くべきである。シャミー(śamī)の葉などを用いて暗色(śyāma)に染める。種子音節(bīja)は一ラクシャ(10万)回ジャパし、マントラは四ラクシャ(40万)回で成就し、ヴィディヤー(vidyā)は一ラクシャ回で成就する。
Verse 21
द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत् अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम् अयुतं बुद्धिविद्यानां स्तोत्राणाञ्च सहस्रकम् पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस् तथात्मनः
両手で行う作法においては、尺度は一ハスタ(肘尺)とすべきである。拡大する場合は、「門の法」(dvāra-nyāya)によって真言を誦す。台座(pīṭha)は方形とし、「輪・蓮華」(cakra-paṅkaja)の図は規定の輻/花弁数を備えるべきである。知性と学知の成就には一万回の誦持、讃歌(stotra)には千回を行う。だがまず第一に、一ラクシャ(十万回)を満たすことで真言が清浄となり、また自己も清浄となる。
Verse 22
पद्मार्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता अष्टाभिर्द्वारकान् कुर्यान्नेमिन्तु चतुरङ्गुलैः तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत् पूर्वमेवासमो होमो वीजानां सम्प्रकीर्तितः
蓮華図の半分は九アングラの寸法と説かれ、中心の臍(ハブ)は三と記される。八(の寸法)によって「門」(dvāra)を作り、縁輪(nemi)は四アングラとする。さらに別のラクシャナ(規定の徴)によって、真言は「クシェートリー・クリタ」となり、加持された儀礼の場として確立される。先に、種子音節(bīja)のための不均等(asama)ホーマがすでに説示された。
Verse 23
त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत् पञ्चान्तस्वरसिद्ध्यर्थं तेष्वस्फाल्य लिखेदरान् पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्तिता परश् चर्ये तु मन्त्रे तु मासिकं व्रतमाचरेत्
儀礼の地を三分してから、さらに内側に二本の線で標示する。五つの終末母音(真言修習における五分の音声完成)の成就のため、地面を打って損なうことなく、その区分に輻線を記すべきである。前行の奉仕(pūrva-sevā)は、真言などに関して十分の一と説かれ、また真言のpuraścaraṇaの作法においては、月ごとの誓戒(vrata)を修すべきである。
Verse 24
इन्दीवरदलाकारानथवा मातुलाङ्गवत् पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम् एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः
青蓮(indīvara)の花弁に似せ、あるいはマートゥラーンガ(mātulāṅga、香橼)の形に倣い、または蓮葉のように細長く、意に随って(図・標)を描くべきである。定法により左足を地に置き、贈与(報酬)を受け取ってはならない。かくして、(修法・回数を)二倍または三倍とすることにより、中位および最上の成就(siddhi)が得られる。
Verse 25
भ्रामयित्वा वहिर् नेमावरसन्ध्यन्तरे स्थितः भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम् स्थूलं शब्दमयं रूपं विग्रहं वाह्यमिष्यते
外方へと回転させつつ、縁輪(nemi)と下方の接合部との間隙に住し、次いで接合部の中央に位置して、輻の根(ara-mūla)において回転させるべきである。ここに、真言より生ずる果をもたらす真言の観想(マントラ・ディヤーナ)を説こう。外在の具身像(vigraha)は、音声より成る粗大な形相であるとされる。
Verse 26
परिमार्जिता इति घ, चिह्नितपुस्तकपाठः द्विधा इति ख, चिह्नितपुस्तकपाठः पञ्चान्तरस्त्वसिद्ध्यर्थमिति ख, चिह्नितपुस्तकपाठः पञ्चोत्तरस्तु सिद्ध्यर्थमिति ङ, चिह्नितपुस्तकपाठः अरमध्ये स्थितो मधमरणिं भ्रामयेत् समम् एवं सिद्ध्यन्तराः सम्यक् मातुलाङ्गनिभाः समाः सुक्ष्मां ज्योतिर्मयं रूपं हार्दं चिन्तामयं भवेत् चिन्तया रहितं यत्तु तत् परं प्रकीर्तितम्
「浄められた」—ある標識付き写本はかく読む。「二様に」—別の写本はかく読む。「五つの間隔は未得のため」—ある本はかくし、「五を越える五つは得のため」—別本はかく読む。アラニ(内なる火を摩出する器具)の中ほどに住し、中のアラニを均等に回転させよ。かくして中間の成就は正しく生じ、均整で、マートゥラーンガ(香橼)に似る。心中には微細にして光明なる形相が起こり、観想より成る。されど思惟を離れたものこそ、至上と称揚される。
Verse 27
विभज्य सप्तधा क्षेत्रं चतुर्दशकरं समम् द्विधा कृते शतं ह्य् अत्र षण्नवत्यधिकानि तु वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः चिन्तया रहितं रूपं वासुदेवस्य कीर्तितम्
聖なる図式の場を七分し、十四単位の等しい量とし、さらに二分すると、ここに百があり、なお九十六が加わる。主としてこれは、ヴァラーハとナラシンハの諸力の粗大(外的)形相であると宣言される。ヴァースデーヴァの形相は、概念的構成を離れ、心の作為を超えるものと説かれる。
Verse 28
कोष्टकानि चतुर्भिस्तैर् मध्ये भद्रं समालिखेत् परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत् इतरेषां स्मृतं रूपं हार्दं चिन्तामयं सदा स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत्
それらによって四つの区画(koṣṭaka)を描き、その中央に吉祥なる「バドラ」形を画すべし。周囲には回廊(vīthī)を残し、また諸方位にも区分を記す。ほかの諸形は「心に属する形」として憶念され、常に観想より成る。粗大(外的)形は「ヴァイラージャ」(Vairāja) と呼ばれ、微細なる形はまことに「リンギタ」(Liṅgita)、すなわち指示され特徴づけられた形である。
Verse 29
कमलानि पुनर्वीथ्यै परितः परिमृज्य तु द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत् चिन्तया रहितं रूपमैश्वरं परिकीर्तितम् हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्
再び蓮華の輪を描き、周囲をならして整えたのち、中央区画において方位ごとに印を二つずつ消し、「頸」(像/図式の頸)を形づくる。分別の思惟を離れたその形相は、主宰(aiśvara)の形相と宣言される—心蓮に住し、清浄なる覚知、滅びぬ光である。
Verse 30
चत्वारि वाह्यतः पश्चात्त्रीणि त्रीणि तु लोपयेत् ग्रीवापार्श्वे वहिस्त्वेका शोभा सा परिकीर्तिता वीजं वीजात्मकं ध्यायेत् कदम्बकुसुमाकृतिं कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा
外側から次に四つを省き、さらに三つと三つを省く。「頸」の両脇には外の印が一つだけ残り、それが形相の美(śobhā)と説かれる。ビージャ(bīja、種子音)を、種子そのものの本性として、カダンバの花の形に観想せよ—壺の中に置かれた灯火のように、その炎の立ち現れが抑えられているがごとく。
Verse 31
विमृज्य वाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत् मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत् संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः
(地を)拭い清めたのち、外側の隅々を浄めるべし――内に七の印、外に三の印を施す。マンダラは九分に分け、九重の配列(ナヴァヴ्यूーハ)においてハリを礼拝する。かくして心を一つに収め独住すれば、マントラの主は心臓に住する。多くの孔をもつクンバ(壺)においては、光線(ガバスティヤḥ)はその孔の量りに応じてのみ現れる。
Verse 32
पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगं द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समं प्रसरन्ति वहिस्तद्वन्नाडीभिर्वीजरश्मयः अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः
マンダラは二十五区分の配列として設けられ、宇宙相(ヴィシュヴァルーパ)を具える。クシェートラ(儀礼の場)は三十二ハスタに量り、三十二に等分する。そこから種子の力の光線(ヴィージャ・ラシュミ)が外へと広がり、同様にナーディー(微細な脈道)を通っても伸展する。やがて輝き出でて、神なる身体を己が身として取り込み、安住する。
Verse 33
एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकं कोष्ठकानां समुद्दिष्टं मध्ये शोडशकोष्ठकैः हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते
かくしてこの配列において、コーシュタカ(身体の区画)は二万四千余と説かれ、その中央に十六の区画がある。心臓よりナーディー(微細な脈道)が発し、感官の領域において知覚に触れ得る。これらのうち、アグニとソーマの性をもつ二つのナーディーが鼻尖に位置する。
Verse 34
भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु ततः षोडशभिः कोष्टैर् दिक्षु भद्राष्टकं लिखेत् सम्यग्गुह्येन योगेन जित्वा देहसमीरणम् जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते
まず吉祥の図(バドラカ)を描き、次いでその側の縁線をならし清める。ついで十六区画に配して、諸方にバドラーシュタカを記すべし。正しい秘法のヨーガにより、身内の生命の風を制し、ジャパと禅観に励むマントラ行者は、マントラの相(ラクシャナ)—すなわち効力と正しい特質—を得る。
Verse 35
ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकं लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत् संशुद्धभूततन्मात्रः सकामो योगमभ्यसन् अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात्
さらに線を拭い清め、同様に十六重のバドラカを描く。周囲の線を清めたのち、しかるべく修法を整える。諸元素とタンマートラ(感覚の微細本質)が浄化されると、果報を求めてヨーガを修する者はアニマー(微小化)に始まるシッディを得る。だが離欲の者は、それらの成就すら超えて、神性を帯びるとはいえ単なる元素的状態と、感官の把握とから解放される。
Verse 36
द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमं षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः
十二の門位は四方に配し、各方に三つずつ順次に定める。六つの位置を除き、内側の中央の両脇に四つの門位を据える。
Verse 37
चत्वार्यन्तर्वहिर्द्वे तु शोभार्थं परिमृज्य तु उपद्वारसिद्ध्यर्थं त्रीण्यन्तः पञ्च वाह्यतः
荘厳のため、内側は四か所、外側は二か所を磨き整えて平滑にする。副門(ウパドヴァーラ)を正しく成就させるため、内側は三か所、外側は五か所を整える。
Verse 38
दिक्षु तत्राष्टकं लिखेदिति ख, ग, घ, चिह्नितपुस्तकपाठः परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत् वहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत्
そこでは八方に「八聚(オクタド)」を刻すべし—写本(kha・ga・gha)に標された異読はかく述べる。拭い清めたのち、装飾を前と同様に整える。外側の隅では区画を浄めよ—外に七、内に三。
Verse 39
पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्
二十五重のヴ्यूーハ配置において、至上のブラフマンを礼拝すべし。蓮華図の中央に、東の花弁より始めて、ヴァースデーヴァらを順次に安置し供養する。
Verse 40
वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात् व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत्
東の蓮座にてヴァラーハを供養したのち、次いで順次に諸ヴューーハをことごとく供養し、第二十六の位(尊格/配置)に至るまで続ける。
Verse 41
यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात् यष्टव्यमिति यत्नेन प्रचेता मन्यते ऽध्वरं
プラチェータスは、祭祀は精励して行うべきであり、説かれたとおりに全体の陣列(vyūha)を一つの蓮華図(pankaja)の中に、順次段階を追って正確に配列すべきだと説く。
Verse 42
सत्पन्तु मूर्तिभेदेन विभक्तं मन्यते ऽच्युतं चत्वारिंशत् करं क्षेत्रं ह्य् उत्तरं विभजेत् क्रमात्
おおアチュタ(ヴィシュヌ)よ、区分は諸形相の差別(mūrti-bheda)に従ってなされると理解される。次いで、四十カラの地所を北側から順序に従って分割すべきである。
Verse 43
एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकं
各単位はさらに七倍され、同様に一単位は再び二倍される。かくして七百六十四を得、総計は千となる。
Verse 44
कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका
区画(koṣṭhaka)のうち、中央に吉祥のバドラカ(bhadraka)を置き、左右に十六の区画を配する。次にヴィーティー(vīthī:通路)を設け、その後に八つのバドラカと、さらに小通路ヴィーティカー(vīthikā)を配する。
Verse 45
षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजं वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ
いま、ヴィーティー(vīthī:回廊・通路)は十六の「蓮華単位」(abja)として量られる。チャトゥルヴィンシャティ型は二十四の蓮華単位を有する。ヴィーティー・パドマは三十二の蓮華単位であり、同様にパンクティ・ヴィーティカー型の蓮華単位も定められる。
Verse 46
चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च द्वारशोभोपशोभाः स्युर्दिक्षु मध्ये विलोप्य च
その後、配置には四十の街路(ヴィーティー)を設け、格子の残る三列によって主門・副門の門飾りを配し、中間方位(斜方)では中央部を省くべきである。
Verse 47
द्विचतुःषड्द्वारसिद्ध्यै चतुर्दिक्षु विलोपयेत् पञ्च त्रीण्येककं वाह्ये शोभोपद्वारसिद्धये
二門・四門・六門の計画を正しく成就するためには、四方において(規定の部分を)省くべきである。さらに美観を増す補助門を整えるには、外側において五・三・一(の区画)を同様に省くべきである。
Verse 48
उभे इति ङ, चिह्नितपुस्तकपाठः यष्टव्यमिति यज्ञेन इति ग, घ, चिह्नितपुस्तकद्वयपाठः यष्टव्यमिति मन्त्रेण इति ङ, चिह्नितपुस्तकपाठः प्रचेता मन्यते ध्रुवमिति ख, चिह्नितपुस्तकपाठः ह्युत्तममिति ङ, चिह्नितपुस्तकपाठः द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः
門の左右の内側の脇板には装飾要素を六つ彫刻(または据え)るべきである。あるいは中央部には四つを置き、二つずつ二つずつを欠き(凹み・溝として残し)なさい。かくして、この方法により、荘厳のための副装飾(ウパショービカー)が六つ成立する。
Verse 49
एकस्यां दिशि सङ्ख्याः स्युः चतस्रः प्रिसङ्ख्यया
一つの方位においては、体系的な数え上げにより、その数を四と取るべきである。
Verse 50
एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् मृजेत् कोष्टकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभं
各方位にはまた三つの門口を設けるべきである。角には五(区画)と五(区画)を置き、列ごとに順序正しく格子の升目を標し(または清め)なさい。かくして、区画が正しく整えられた吉祥なる「martyeṣṭya」マンダラが成立する。
It is a consecrated ritual field for mantra-sādhana, combining precise geometric layout, deity/element placements, and disciplined japa-dhyāna to produce mantra-lakṣaṇa (effective potency) and yogic purification.
Compartment counts (16/36/24/32 and larger enumerations), lotus-zone architecture (karṇikā, keśara, vīthikā, dvāra), exact measures (aṅgula/hasta/kara), pigment sources and color codes, and procedural steps for wiping/marking/omitting cells to form passages and door-sites.
It correlates the mandala’s rays and divisions with nāḍīs arising from the heart, teaches contemplation from gross sound-formed imagery to subtle heart-luminosity, and culminates in the aiśvara form described as free from conceptual thought.
Bīja-japa is set at one lakh; mantras at four lakhs; a vidyā at one lakh; additionally, ten thousand for intellectual/knowledge attainments and one thousand for hymns—preceded by one lakh for mantra-śuddhi and self-purification.