Sukta 8.27
प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् । न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥
प्र व॑: शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् । न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥
prá vaḥ śaṃsāmy ádruhaḥ saṃsthá upastutīnām | ná taṃ dhūrtír varuṇa mitra mártyaṃ yó vo dhāmábhyo ’vídhat ||
Aku memaklumkan kalian, wahai yang tak menipu, teguh bersemayam pada singgasana puji-pujian kami. Tiada insan bengkok, wahai Varuṇa dan Mitra, dapat mencelakai dia yang telah mengabdi pada dhāman—tatanan dan kediaman-kediaman kalian.
प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्ऽस्थे । उप॑ऽस्तुतीनाम् । न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य॑म् । यः । वः॒ । धाम॑ऽभ्यः । अवि॑धत् ॥प्र । वः । शंसामि । अद्रुहः । सम्स्थे । उपस्तुतीनाम् । न । तम् । धूर्तिः । वरुण । मित्र । मर्त्यम् । यः । वः । धामभ्यः । अविधत् ॥pra | vaḥ | śaṃsāmi | adruhaḥ | sam-sthe | upa-stutīnām | na | tam | dhūrtiḥ | varuṇa | mitra | martyam | yaḥ | vaḥ | dhāma-bhyaḥ | avidhat