Sukta 6.61
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा । रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥
प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥
prá yā́ mahimnā́ mahinā́su cé kite dyumnébhiḥ anyā́ apásām apás-tamā́ | rátha iva bṛhatī́ ví-bhvane kṛtópa-stutyā́ cikituṣā́ sárasvatī ||
Ia yang oleh kebesarannya tampak di antara yang agung; oleh daya-daya cahayanya melampaui yang lain—paling ampuh dalam karya: Sarasvatī, luas bagaikan kereta dalam lajunya, dibentuk bagi menjadi yang meliputi, untuk dipuji oleh mereka yang mengetahui.
प्र । या । म॒हि॒म्ना । म॒हिना॑सु । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा । रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥प्र । या । महिम्ना । महिनासु । चेकिते । द्युम्नेभिः । अन्याः । अपसाम् । अपःतमा । रथःइव । बृहती । विभ्वने । कृता । उपस्तुत्या । चिकितुषा । सरस्वती ॥pra | yā | mahimnā | mahināsu | cekite | dyumnebhiḥ | anyā | apasām | apaḥ-tamā | rathaḥ-iva | bṛhatī | vi-bhvane | kṛtā | upa-stutyā | cikituṣā | sarasvatī