अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ᳪसे सो॑मपी॒थं य आ॒शुः । ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम्
agniṣvāttā́n ṛtumáto havāmahe nārāśaṃsé somapī́thaṃ yá āśúḥ | té no víprāsaḥ suhávā bhavantu vayáṃ syāma pátayo rayīṇā́m ||
हम अग्नि-स्वादित (अग्निष्वात्त) ऋतु-नियत पितरों का आह्वान करते हैं; नाराशंस—उस शीघ्र सोमपान करने वाले—का भी। वे प्रेरित विप्र हमारे लिए सुहाव (सुलभ-आह्वेय) हों; और हम धन-सम्पदाओं के स्वामी बनें।
अग्निष्वात्तान् । ऋतुमतः । हवामहे । नाराशंसॆ । सोमपीथम् । यः । आशुः । ते । नः । विप्रासः । सुहवाः । भवन्तु । वयम् । स्याम । पतयः । रयीणाम्