आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ । मा हि॑ᳪसिष्ट पितर॒: केन॑ चिन्नो॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म
ā́cyā jánu dakṣiṇató niṣádya imáṃ yajñám abhí gṛṇīta víśve | mā́ hiṃsiṣṭa pitaraḥ kéna cin no yád va ā́gaḥ puruṣátā kárāma ||
निकट आओ; दक्षिण दिशा की ओर बैठकर, तुम सब इस यज्ञ की प्रशंसा/अनुमोदन करो। हे पितरः, किसी भी प्रकार से हमें हानि न पहुँचाओ—क्योंकि जो भी अपराध हमसे, मनुष्य-स्वभाववश, तुम्हारे प्रति हो गया हो।
आ । अच्याः । जानु । दक्षिणतः । निषद्य । इमम् । यज्ञम् । अभि । गृणीत । विश्वे । मा । हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः । आगः । पुरुषता । कराम