स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वन्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाᳪस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन्
samu̱dré tvā nṛ̱máṇā a̱psvántar nṛ̱cákṣā ī̱dhe di̱vó agna ū́dhan | tṛ̱tī́ye tvā rájasi tasthi̱vā́ṃsam a̱pā́m upásthe mahi̱ṣā́ avardhan
समुद्र में, जलों के भीतर, मनुष्यों को आनन्द देने वाले, मनुष्यों को देखने वाले—हे अग्नि, दिव्य दुग्धधारा (ऊधन्) के समान—मैं तुझे प्रज्वलित करता हूँ। तीसरे रजस् (मध्यलोक) में, अन्तरिक्ष में, स्थिर खड़े हुए तुझे—जल के उपस्थ (आश्रय) में—महिषा (महान शक्तियाँ) बढ़ाती हैं।
स॒मु॒द्रे । त्वा॒ । नृ॒मणा॑ । अ॒प्सु । अ॒न्तः । नृ॒चक्षा॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् । तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒वाᳪस॑म् । अ॒पाम् । उ॒पस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न्