उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाक॒: सुलो॒कᳪ सुकृ॑तं पृथि॒व्याम् । तत॑: खनेम सु॒प्रती॑कम॒ग्निᳪ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम्
úd akramīd draviṇodā́ vājy-arvākáḥ sulokáᳪ sukṛtáṃ pṛthivyā́m | tátaḥ khanema suprátīkam agníᳪ svò ruhā́ṇā ádhi nā́kam uttamám
द्रविणोदा वाजिन्, इधर की ओर बढ़ता हुआ, पृथ्वी पर सुलोक—सुकृत, सुव्यवस्थित प्रदेश में प्रविष्ट हुआ। तत्पश्चात् हम सु-प्रतीक अग्नि को खोदकर निकालें, और स्वर्ग की ओर आरोहण करते हुए परम उत्तम नाक (स्वर्ग) पर पहुँचें।
उद्-अ॑क्रमीत् । द्रविणः-दा । वा॒ज्य॒र्वाकः । सु-लोकम् । सु-कृतम् । पृथि॒व्याम् । ततः । खनेम । सु-प्रतीकम् । अ॒ग्निम् । स्वः । रुहा॑णाः । अधि । नाकम् । उत्तमम्