Sukta 6.60
ता नो वाजवतीरिष आशून्पिपृतमर्वतः । इन्द्रमग्निं च वोळ्हवे ॥
ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः । इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥
tā́ no vājavatī́r íṣa āśū́n pipṛtám árvataḥ | índram agníṃ ca vóḷhave ||
वे वाजवती इषाः हमारे लिए शीघ्र अश्वों को बल-समृद्ध प्रेरणाओं से परिपूर्ण करें, ताकि वे इन्द्र और अग्नि को वहन कर, उन्हें हमारे कर्म के नेता रूप में समीप ले आएँ।
ता । नः॒ । वाज॑ऽवतीः । इषः॑ । आ॒शून् । पि॒पृ॒त॒म् । अर्व॑तः । इन्द्र॑म् । अ॒ग्निम् । च॒ । वोळ्ह॑वे ॥ता । नः । वाजवतीः । इषः । आशून् । पिपृतम् । अर्वतः । इन्द्रम् । अग्निम् । च । वोळ्हवे ॥tā | naḥ | vāja-vatīḥ | iṣaḥ | āśūn | pipṛtam | arvataḥ | indram | agnim | ca | voḷhave