Sukta 6.16
स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना । वन्वन्नवातो अस्तृतः ॥
स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना । व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥
sá hí viśvā́ti pārthívā rayím dā́śan mahitvánā | vánvan ávātó ástṛtaḥ ||
वह ही, समस्त पार्थिव मानों से परे, अपनी महिमा से (उपासक को) रयि—समृद्धि/आध्यात्मिक धन—प्रदान करता है; आगे-आगे विजय करता हुआ, प्रतिकूल पवनों से अडिग, और (कभी) बिखरता नहीं।
सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना । व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥सः । हि । विश्वा । अति । पार्थिवा । रयिम् । दाशत् । महित्वना । वन्वन् । अवातः । अस्तृतः ॥saḥ | hi | viśvā | ati | pārthivā | rayim | dāśat | mahi-tvanā | vanvan | avātaḥ | astṛtaḥ