Sukta 1.100
स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा । चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥
स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ । च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sá vájra-bhṛd dasyu-hā bhīmá ugráḥ sahásra-cetāḥ śatá-nītha ṛ́bhvā | camrīṣó na śávasā pā́ñca-janyo marútvān no bhavátv índra ūtī́ ||
वह वज्रधारी, दस्यु-हंता, भीषण और उग्र है; सहस्र-चेताः, शत-नीथ, ऋभु-सा कुशल कर्ता। बल से वह चर्म-ढाल के समान दृढ़, पंचजन्य (पाँच जनों) के लिए आधार है। मरुतों सहित इन्द्र हमारी सहायता और रक्षा हों।
सः । व॒ज्र॒ऽभृत् । द॒स्यु॒ऽहा । भी॒मः । उ॒ग्रः । स॒हस्र॑ऽचेताः । श॒तऽनी॑थः । ऋभ्वा॑ । च॒म्री॒षः । न । शव॑सा । पाञ्च॑ऽजन्यः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥सः । वज्रभृत् । दस्युहा । भीमः । उग्रः । सहस्रचेताः । शतनीथः । ऋभ्वा । चम्रीषः । न । शवसा । पाञ्चजन्यः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥saḥ | vajra-bhṛt | dasyu-hā | bhīmaḥ | ugraḥ | sahasra-cetāḥ | śata-nīthaḥ | ṛbhvā | camrīṣaḥ | na | śavasā | pāñca-janyaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī