Sukta 1.100
स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः । अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥
स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवै॑: । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sá jāmíbhiḥ yát samájāti mīḷhé ’jāmibhir vā puruhū́ta évaiḥ | apā́m tókasyá tánayasya jéṣe marútvān no bhavátv índra ūtī́ ||
वह बहु-आहूत (पुरुहूत) अपने प्रेरणाओं से—हमारे स्वजन (जामि) द्वारा भी, और अस्वजन द्वारा भी—समृद्ध लाभ को जीतता है। वह हमारे लिए जलों को, बालक को, और संतान को जीतता है—मरुतों सहित वही इन्द्र हमारी सहायता (ऊति) बने।
सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥सः । जामिभिः । यत् । सम्अजाति । मीळ्हे । अजामिभिः । वा । पुरुहूतः । एवैः । अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥saḥ | jāmi-bhiḥ | yat | sam-ajāti | mīḷhe | ajāmi-bhiḥ | vā | puru-hūtaḥ | evaiḥ | apām | tokasya | tanayasya | jeṣe | marutvān | naḥ | bhavatu | indraḥ | ūtī