Sukta 1.100
तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् । तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
तस्य॒ वज्र॑: क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒: शिमी॑वान् । तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
tásya vájraḥ krándati smát svaḥ-sā́ divó na tvéṣo raváthaḥ śimī́vān | táṃ sacante sanáyas táṃ dhánāni marútvān no bhavátv índra ūtī́ ||
उसका वज्र हमारे सामने स्वयं-प्रेरित होकर गर्जता है; दिव्य तेज के समान उसका नाद, शिमीवान्—प्रेरक वेग से परिपूर्ण है। विजयें उससे जुड़ती हैं, धन उससे जुड़ते हैं। मरुतों सहित इन्द्र हमारी सहायता और रक्षा हों।
तस्य॑ । वज्रः॑ । क्र॒न्द॒ति॒ । स्मत् । स्वः॒ऽसाः । दि॒वः । न । त्वे॒षः । र॒वथः॑ । शिमी॑ऽवान् । तम् । स॒च॒न्ते॒ । स॒नयः॑ । तम् । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥तस्य । वज्रः । क्रन्दति । स्मत् । स्वःसाः । दिवः । न । त्वेषः । रवथः । शिमीवान् । तम् । सचन्ते । सनयः । तम् । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥tasya | vajraḥ | krandati | smat | svaḥ-sāḥ | divaḥ | na | tveṣaḥ | ravathaḥ | śimī-vān | tam | sacante | sanayaḥ | tam | dhanāni | marutvān | naḥ | bhavatu | indraḥ | ūtī