यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु
yát te gā́trād agnínā pacyámānād abhí śū́laṃ níhatasya avadhā́vati | mā́ tád bhū́myām ā́śriṣan mā́ tŕ̥ṇeṣu devébhyaḥ tád uśádbhyo rā́tam astu
Ce qui, de ton corps, tandis qu’Agni le cuit, dégoutte sur la broche de l’abattu — que cela n’adhère ni à la terre ni aux herbes ; que cela soit un don offert aux dieux qui le désirent.
यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निहतस्य । अवधावति । मा । तत् । भूम्याम् । आश्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशद्भ्यः । रातम् । अस्तु ।