अस्ता॑व्य॒ग्निर्न॒राᳪ सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म्
ástāvy agnír narā́ṃ suśévo vaiśvānará ṛ́ṣibhiḥ sómagopāḥ | advéṣe dyā́vā-pṛthivī́ huvema devā́ dhatta rayím asmé suvī́ram ||
Agni est loué — bienveillant envers les hommes —, Vaiśvānara, par les Ṛṣi, gardiens du Soma. Dans l’absence de haine, nous invoquons le Ciel et la Terre : ô Dieux, accordez-nous une richesse abondante en vaillants héros.
अस्तावि । अग्निः । नराम् । सु-शेवः । वैश्वानरः । ऋषिभिः । सोम-गोपाः । अद्वेषे इति । द्यावा-पृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सु-वीरम्