त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः
tvā́m agne yájāmānā ánu dyū́n víśvā vásu dadhire vā́ryāṇi | tváyā sahá dráviṇam icchámānā vrajáṃ gómantam uśíjo ví vavruḥ ||
À toi, ô Agni, les sacrifiants, te suivant jour après jour, ont amassé toutes les richesses, les biens de choix. Désirant avec toi la substance, les adorateurs ardents se sont largement déployés vers un enclos abondant en vaches.
त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसूनि । दधिरे । वार्याणि । त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गो-मतम् । उशिजः । वि । वव्रुः