Sukta 10.25
त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा । यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥
त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ । यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥
tváṃ no vṛtrahan-taméndrasyéndo śiváḥ sákhā | yát sīm hávante sam-ithé ví vo máde yúdhyamānās tókā-sātau vivákṣase ||
Tu es pour nous l’ami d’Indra le plus tueur de Vṛtra, ô Indu, compagnon bienveillant. Quand on t’invoque dans la mêlée, alors, dans ton ivresse, tu les fais croître dans la victoire qui gagne la descendance — l’obtention de la continuité.
त्वम् । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । शि॒वः । सखा॑ । यत् । सी॒म् । हव॑न्ते । स॒म्ऽइ॒थे । वि । वः॒ । मदे॑ । युध्य॑मानाः । तो॒कऽसा॑तौ । विव॑क्षसे ॥त्वम् । नः । वृत्रहन्तम । इन्द्रस्य । इन्दो इति । शिवः । सखा । यत् । सीम् । हवन्ते । सम्इथे । वि । वः । मदे । युध्यमानाः । तोकसातौ । विवक्षसे ॥tvam | naḥ | vṛtrahan-tama | indrasya | indo iti | śivaḥ | sakhā | yat | sīm | havante | sam-ithe | vi | vaḥ | made | yudhyamānāḥ | toka-sātau | vivakṣase