Sukta 1.84
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
atrā́ha góram anvata nā́ma tváṣṭur apī́cyam | itthā́ candrámaso gṛhé ||
Aquí, en verdad, rastrearon el Nombre oculto de la Vaca — el secreto de Tvaṣṭṛ; así, en la casa de la Luna.
अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् । इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । गृहे ॥atra | aha | goḥ | amanvata | nāma | tvaṣṭuḥ | apīcyam | itthā | candramasaḥ | gṛhe