Sukta 1.100
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य । वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥
रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य । वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥
róhit chyā́vā sumád-aṃśur lalāmī́r dyukṣā́ rā́ya ṛjrā́śvasya | vṛ́ṣaṇvantaṃ bíbhratī dhū́rṣu ráthaṃ mandrā́ ciketa nā́huṣīṣu víkṣu ||
La rojiza y la oscura, de hermosos rayos, adornadas y brillantes por la riqueza de Ṛjraśva, llevando en los varales el carro lleno de fuerza impelente—la dicha inspirada se hace patente entre los pueblos de Nahusha.
रो॒हित् । श्या॒वा । सु॒मत्ऽअं॑शुः । ल॒ला॒मीः । द्यु॒क्षा । रा॒ये । ऋ॒ज्रऽअश्व॑स्य । वृष॑ण्ऽवन्तम् । बिभ्र॑ती । धूः॒ऽसु । रथ॑म् । म॒न्द्रा । चि॒के॒त॒ । नाहु॑षीषु । वि॒क्षु ॥रोहित् । श्यावा । सुमत्अंशुः । ललामीः । द्युक्षा । राये । ऋज्रअश्वस्य । वृषण्वन्तम् । बिभ्रती । धूःसु । रथम् । मन्द्रा । चिकेत । नाहुषीषु । विक्षु ॥rohit | śyāvā | sumat-aṃśuḥ | lalāmīḥ | dyukṣā | rāye | ṛjra-aśvasya | vṛṣaṇ-vantam | bibhratī | dhūḥ-su | ratham | mandrā | ciketa | nāhuṣīṣu | vikṣu