Sukta 9.99
स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः । विदे यदासु संददिर्महीरपो वि गाहते ॥
स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्य॑: सु॒तः । वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥
sá mṛ́jyate sukármabhir devó devébhyaḥ sutáḥ | vidé yadā́su sam-dadír mahī́r apó ví gāhate ||
He is cleansed by the right workings, the god pressed out for the gods; and when he is to be known, he unites within these (waters) and enters deeply into the vast streams.
सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥सः । मृज्यते । सुकर्मभिः । देवः । देवेभ्यः । सुतः । विदे । यत् । आसु । सम्ददिः । महीः । अपः । वि । गाहते ॥saḥ | mṛjyate | sukarma-bhiḥ | devaḥ | devebhyaḥ | sutaḥ | vide | yat | āsu | sam-dadiḥ | mahīḥ | apaḥ | vi | gāhate