Sukta 9.99
स पुनानो मदिन्तमः सोमश्चमूषु सीदति । पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥
स पु॑ना॒नो म॒दिन्त॑म॒: सोम॑श्च॒मूषु॑ सीदति । प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥
sá punānó madíntamaḥ sómaś camū́ṣu sīdati | paśáu na réta ā́-dadhat pátir vacasyate dhíyaḥ ||
That Soma, being purified and most intoxicating in delight, settles into the bowls; like seed placed in the living creature, he is set within—master of the word, he makes the thoughts fruitful for utterance.
सः । पु॒ना॒नः । म॒दिन्ऽत॑मः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ । प॒शौ । न । रेतः॑ । आ॒ऽदधत् । पतिः॑ । व॒च॒स्य॒ते॒ । धि॒यः ॥सः । पुनानः । मदिन्तमः । सोमः । चमूषु । सीदति । पशौ । न । रेतः । आदधत् । पतिः । वचस्यते । धियः ॥saḥ | punānaḥ | madin-tamaḥ | somaḥ | camūṣu | sīdati | paśau | na | retaḥ | ādadhat | patiḥ | vacasyate | dhiyaḥ