Sukta 9.99
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् । दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥
तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् । दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिण॑: ॥
tám ukṣámāṇam avyáye vā́re punanti dharṇasím | dūtáṃ na pū́rva-cíttaya ā́ śā́sate manīṣíṇaḥ ||
Him, the Soma who is pouring forth, the wise purify in the imperishable woolen filter; the steadfast bearer (of the rite) they commission and direct—like a messenger—toward the ancient remembering (the primeval consciousness).
तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् । दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥तम् । उक्षमाणम् । अव्यये । वारे । पुनन्ति । धर्णसिम् । दूतम् । न । पूर्वचित्तये । आ । शासते । मनीषिणः ॥tam | ukṣamāṇam | avyaye | vāre | punanti | dharṇasim | dūtam | na | pūrva-cittaye | ā | śāsate | manīṣiṇaḥ