Sukta 9.99
तं गाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥
तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत । उ॒तो कृ॑पन्त धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥
táṃ gā́thayā purāṇyā́ punā́nám abhy ànūṣata | utó kṛpanta dhītáyo devā́nāṃ nā́ma bíbhratīḥ ||
Him, being purified, they have sung to with an ancient chant; and the inspirations shape themselves, bearing the Names of the gods.
तम् । गाथ॑या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ । उ॒तो इति॑ । कृ॒प॒न्त॒ । धी॒तयः॑ । दे॒वाना॑म् । नाम॑ । बिभ्र॑तीः ॥तम् । गाथया । पुराण्या । पुनानम् । अभि । अनूषत । उतो इति । कृपन्त । धीतयः । देवानाम् । नाम । बिभ्रतीः ॥tam | gāthayā | purāṇyā | punānam | abhi | anūṣata | uto iti | kṛpanta | dhītayaḥ | devānām | nāma | bibhratīḥ