Sukta 9.99
अध क्षपा परिष्कृतो वाजाँ अभि प्र गाहते । यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥
अध॑ क्ष॒पा परि॑ष्कृतो॒ वाजाँ॑ अ॒भि प्र गा॑हते । यदी॑ वि॒वस्व॑तो॒ धियो॒ हरिं॑ हि॒न्वन्ति॒ यात॑वे ॥
ádha kṣapā́ paríṣkṛto vā́jāṃ abhi prá gāhate | yadī́ vivásvato dhíyo háriṃ hinvánti yā́tave ||
Then, purified through the nights, he plunges forward toward plenitudes of force; when the thoughts of Vivasvat impel the tawny one to go on his journey.
अध॑ । क्ष॒पा । परि॑ऽकृतः । वाजा॑न् । अ॒भि । प्र । गा॒ह॒ते॒ । यदि॑ । वि॒वस्व॑तः । धियः॑ । हरि॑म् । हि॒न्वन्ति॑ । यात॑वे ॥अध । क्षपा । परिकृतः । वाजान् । अभि । प्र । गाहते । यदि । विवस्वतः । धियः । हरिम् । हिन्वन्ति । यातवे ॥adha | kṣapā | pari-kṛtaḥ | vājān | abhi | pra | gāhate | yadi | vivasvataḥ | dhiyaḥ | harim | hinvanti | yātave