Sukta 9.99
आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् । शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥
आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य॑म् । शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युव॑: ॥
ā́ haryatáya dhṛṣṇáve dhánus tanvanti paúṃsyam | śukrā́ṃ vayanty ásurāya nírṇijaṃ vipā́m ágre mahīyúvaḥ ||
For the beloved and daring one they stretch the bow of manly power; they weave for the lordly force a shining garment—at the forefront of inspired utterance—those who magnify him.
आ । ह॒र्य॒ताय॑ । धृ॒ष्णवे॑ । धनुः॑ । त॒न्व॒न्ति॒ । पौंस्य॑म् । शु॒क्राम् । व॒य॒न्ति॒ । असु॑राय । निः॒ऽनिज॑म् । वि॒पाम् । अग्रे॑ । म॒ही॒युवः॑ ॥आ । हर्यताय । धृष्णवे । धनुः । तन्वन्ति । पौंस्यम् । शुक्राम् । वयन्ति । असुराय । निःनिजम् । विपाम् । अग्रे । महीयुवः ॥ā | haryatāya | dhṛṣṇave | dhanuḥ | tanvanti | paiṃsyam | śukrām | vayanti | asurāya | niḥ-nijam | vipām | agre | mahīyuvaḥ