Sukta 9.98
स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी । देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥
स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी । दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥
sá vāṃ yajñéṣu mānavī́ índur janiṣṭa rodasī́ | devó devī́ giriṣṭhā́ asredhántaṃ tuviṣváṇi ||
That Indu is born for you in the human sacrifices, O Heaven-and-Earth; a god for the goddess-powers, mountain-seated, unflagging, thundering with a mighty sound.
सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ । दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥सः । वाम् । यज्ञेषु । मानवी इति । इन्दुः । जनिष्ट । रोदसी इति । देवः । देवी इति । गिरिस्थाः । अस्रेधन् । तम् । तुविस्वनि ॥saḥ | vām | yajñeṣu | mānavī iti | induḥ | janiṣṭa | rodasī iti | devaḥ | devī iti | giri-sthāḥ | asredhan | tam | tuvi-svani