Sukta 9.98
अस्य वो ह्यवसा पान्तो दक्षसाधनम् । यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥
अ॒स्य वो॒ ह्यव॑सा॒ पान्तो॑ दक्ष॒साध॑नम् । यः सू॒रिषु॒ श्रवो॑ बृ॒हद्द॒धे स्व१॒॑र्ण ह॑र्य॒तः ॥
asyá vo hí ávasā pā́nto dakṣa-sā́dhanam | yáḥ sūríṣu śrávo bṛhád dadhé svàrṇa haryatáḥ ||
For by his help he is indeed your protector, a maker of effective power; he, the beloved luminous one, establishes among the seers a vast fame—like the sunlit heaven’s radiance.
अ॒स्य । वः॒ । हि । अव॑सा । पान्तः॑ । द॒क्ष॒ऽसाध॑नम् । यः । सू॒रिषु॑ । श्रव॑ह् । बृ॒हत् । द॒धे । स्वः॑ । न । ह॒र्य॒तः ॥अस्य । वः । हि । अवसा । पान्तः । दक्षसाधनम् । यः । सूरिषु । श्रवह् । बृहत् । दधे । स्वः । न । हर्यतः ॥asya | vaḥ | hi | avasā | pāntaḥ | dakṣa-sādhanam | yaḥ | sūriṣu | śravah | bṛhat | dadhe | svaḥ | na | haryataḥ